________________
૨૮
भद्रङ्करोदयाख्यव्याख्याविभूषिते
भक्तिः, सम्यक्चारित्रवतः श्रुतानुसारेण यथोचितं योगानुष्ठानं वचः, पट्वभ्यासाऽऽहित संस्कारवशाद्वचननैरपेक्ष्येण स्वभावत एव योगानुष्ठानमसङ्गः इति सङ्क्षेपः । विस्तरतस्तु षोडशकाद्दौ द्रष्टव्यम् । नन्वेभि योगैः कथं मोक्षाप्तिरिति शिष्यजिज्ञासायामाह - तस्मादित्यादि । तस्मात् - पूर्वोक्ताऽशीतिविधयोगाराधनाद्धेतोः क्रमात् - पौर्वापर्यतः, अयोगयोगाप्तेः - अयोगोऽविद्यमाना मनोयोगादयः सर्वे योगा यत्र स तादृशश्वाऽसौ योगश्चाऽयोगयोगः सकलयोगनिरोधात्मकः शैलेश्यवस्थारूपस्तस्याऽप्तेः प्राप्तेर्हेतोः, मोक्षयोगःसकलकर्मक्षयजन्य शुद्ध सच्चिदानन्दात्मक स्वरूपावस्थानात्मकेन मोक्षपदवाच्येन सह योगः सम्बन्धः, भवेत् स्यात् । आदौ योगा. राधनं ततोऽयोगयोगाति स्ततो मोक्ष इत्येवं क्रमाद्योगान्मोक्षलाभ इति तात्पर्यम् । तस्मान्मोक्षेच्छुना योगोऽवश्याराध्यः, तेन विना मोक्षाऽप्राप्तेरिति हृदयम् ॥ ७ ॥
सम्प्रत्युपसंहरन् शिष्यहृदयावर्जनार्थं योगरहितस्य श्रुताऽषि - कारोऽपि नेति योगमाहात्म्यमाह
स्थानाद्य योगिनस्तीर्थोच्छेदाद्यालम्बनादपि । सूत्रदाने महादोष इत्याचार्याः प्रचक्षते ॥ ८ ॥ इति महामहोपाध्याय - श्रीयशोविजयोपाध्यायकृते ज्ञानसारे योगाऽष्टकं नाम सप्तविंशतितममष्टकम् ॥२७॥
स्थानाथयोगिन इत्यादि । स्थानाद्ययोगिनः-स्थानं स्थानारूपयोग आदि येषां वर्णयोगादीनां ते स्थानादयस्तैः कृत्वाऽयोगिनो