________________
२८२
भद्रङ्करोदयाख्यव्याख्या विभूषिते
समाधिश्च, ऐकाय्यं कर्तव्येष्वतीचारो मा प्रसाङ्गीदिति मनसस्तदे. कतानता, अप्रमाद इति यावत् । वृत्त्यन्तरपरित्यागेन मनसो लक्ष्ये स्थिरतेति निष्कर्षः । एते गोचरा विषया यस्य स तादृशः, योग इष्यते इति सम्बध्यते । ततश्च यौगिकार्थाऽनुसारेण योगपदस्य मोक्षसाधकाऽऽचारमात्रमर्थः । रूढ्या तु स्थानादिपञ्चकं योगपदार्थ इति सारः ॥ १॥
सम्प्रति शिष्यप्रबोधार्थं तेषां विशेषाऽभिधानं स्वामिनं चाऽऽहकर्मयोगद्वयं तत्र ज्ञानयोगत्रयं विदुः ।
विरतेष्वेष नियमाद् बीजमानं परेष्वपि ॥ २॥ - कर्मयोगद्वयमित्यादि । तत्र-तेषु स्थानादिषु पञ्चसु योगपदार्थेषु, कर्मयोगद्वयम्-कर्म क्रिया तदात्मको योगः कर्मयोगस्तयोर्द्वयम् , स्थानं वर्णश्चेत्येतद्वयं क्रियात्मकत्वात्कर्मयोग इत्येक मित्यर्थः । ज्ञानयोगत्रयम् - ज्ञानं चिन्तनं ध्यानं भावनं च, तदात्मको योगो ज्ञानयोगस्तेषां त्रयम् , अर्थचिन्तनमालम्बनध्यानं लक्ष्यैक गानता च क्रमशो ज्ञानस्यैव प्रकारा इत्यर्थालम्बनैकाग्र्यत्रयं ज्ञानयोग इत्येवम् , विदुः-जानन्ति, योगरहस्यज्ञा इति शेषः । उक्ताः पञ्च योगा द्विधा विभक्ताः, आदितो द्वयं कर्मयोगारूयं शेषं ज्ञानयोगाख्यं क्रमशः क्रियात्मकत्वाज्ज्ञानात्मकत्वाञ्चेत्याशयः । केमे भवन्तीति शिष्यजिज्ञासायामाह-विरतेष्वि त्यादि । एषः-कर्म: योगाल्यो ज्ञानयोगारूयश्च योगः स्थानपद्यात्मकः, नियमाद्निश्चयतः, विरतेषु-त्यक्तारम्भेषु, देशविरतेषु सर्वविरतेषु चेत्यर्थः ।