________________
मानसारे शास्त्रदृष्टयऽष्टकम्
सम्पदश्च जायन्त इति शेषः आज्ञाराधनादिना पूजितोऽईन् सर्वसिद्धिमूलम् । यदुक्तम् - " श्रयन्ते चाऽनन्ताः सामायिकमात्रपदसिदा" इति, " भववीजङ्करजनना रागादयः क्षयमुपगता यस्य। ब्रह्मा वा विष्णु वा हरो जिनो वा नमस्तमै" इति च ॥ ४ ॥
सम्प्रति शिष्यप्रबोधाय शास्त्राऽनाश्रयेण प्रवृत्तावपायमाहअदृष्टाऽर्थेऽनुधावन्तः शास्त्रदीपं विना जडाः । प्राप्नुवन्ति परं खेदं प्रस्खलन्तः पदे पदे ॥ ५ ॥
अदृष्टार्थ इत्यादि । जडा:-सम्यक्साधनमसमवधायैव श्रेयसि प्रवृताः, उपेये उपाय ज्ञानविकलवादज्ञा इत्यर्थः । अदृष्टार्थेअदृष्टेऽज्ञातेऽर्थे विषये प्रयोजने वा, मोक्षे तत्साधनानभूते हेये पासवादावुपादेये संवरादौ च, अप्रत्यक्ष इत्यर्थः, परोक्षार्थ इति यावत् । अथ चाऽदृष्टश्चक्षुषोऽगोचरोऽर्थः पदार्थो यस्मिस्तस्मिन्, गाढान्धकार इत्यर्थः । तत्तुल्य इति यावत् । शानदीपम्-शाखमुक्कलक्षणं तदेव यथावस्थितहेयोपादेयवस्तुप्रकाशकत्वादीप इव, तम् , विना-ऋते, शास्त्रदीपं विहायेति यावत् । अनुधावन्त:अष्टमर्थमनुलक्ष्य ससंरम्भं प्रवर्तमानाः शीघ्रतया गच्छन्तश्च, 'पदे पदे-हेये उपादेये च तत्र तत्राऽर्थे, प्रतिपदन्यासं च, वीप्सायां द्विरुक्तिः । प्रस्खलन्तः-यथायोग्यमनासेवमानाः, विषमेष्वाघातादिना गतिभङ्गं प्राप्नुवन्तश्च, परम्-अत्यधिकम् । खेदम्-क्लेशम्, प्राप्नुवन्ति - लभन्ते । अविहिताचरणालक्ष्या प्राप्तेः, पक्षे दुःसहायातादेरिति च बोध्यम् । गाढान्त्र कारे हि दीपं विनाऽनुधावन्तो