SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे लोकसंज्ञात्यागाऽष्टकम् तजन्यत्वात्तत्सम्बन्धी ज्वरो रोगविशेष इवाऽन्तस्तापात्मको ज्वरो यस्यः, द्रोहादय एवाऽन्तस्तापप्रदत्वाज्ज्वरो यस्येति वा स तादृशः, निर्मलात्मेत्यर्थः । वहिरजान्तरङ्गदोषशून्य इति समुदितसारार्थः । साधु:-मुनिर्यति धर्मस्थः, परब्रह्मपमाधिमान्-परं शुद्धसचि. दानन्दमयत्वात्पारमार्थिकं यमाऽऽत्मा तस्य तद्विषयत्वात्तत्सम्बन्धी यः समाधि मनःसमाधानम् , मनसो वृत्त्यन्तरपरिहारेण तादृशात्मनि लीनता, तद्वान् सन् । सुखम्-सुखं यथास्यात्तथा, सुखेनेत्यर्थः । आस्ते-तिष्ठति, ब्रह्मानन्दमनुभवतीति यावत् । लोकसंज्ञारतो हि लौकिक श्रेयोऽर्थीति स स्वेष्टविनकारिणे द्रुह्यति, इष्टे ममत्वमनुबध्नाति, परोत्कर्ष च स्वन्यूनत्वाऽनुषङ्गान्न सहते, विषयविक्षुब्बमनाश्च भवती ते सर्वदाऽन्तस्तापाकुल एव भवति । लोकसंज्ञात्यागे तु द्रोहादेः कारणाऽभावादेवाऽभावः, विषयासनाभावाच्च मन आत्मनि सहजत एव लीयते, ततश्च परमानन्दानुभवः । तस्माल्लोकसंज्ञा सर्वप्रयासेन हेयैव श्रेयोर्थिना मुनिनेति तात्पर्यम् ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यात कविरत्नपन्यासपवरश्रीयशोभद्र विजयगणिवरशिष्यपन्यास श्रीशुभङ्करविजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां लोकसंज्ञात्यागाऽष्टकं नाम त्रयोविंशतितमाऽष्टकम् ॥ २३ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy