________________
२४६
भद्रङ्करोदयाख्यव्याख्याविभूषिते
लोकेत्यादि । हन्तेति खेदे । लोकसंज्ञाहता:-लोकसंज्ञा लोकरञ्जनार्थ विधीयमानाऽशास्त्रविहिता विविधा चेष्टा, तया हेतुना हताः मन्दसत्त्वाः, दण्डादिनाऽऽत्रातमुपगता इवेति बोध्यम् । हीनसत्त्वतया लोकसंज्ञारता इति निष्कर्षः । जना इति विशेष्यमर्थवला. दोध्यम् । नीचैर्गमनदर्शनै:-" अहमतिनम्रो न ममाऽहङ्कारलेशोऽपीति स्वस्य नम्रत्वनिरभिमानित्वादिख्यापनेन, 'नाऽहंध्यादिकं. द्रष्टुकामो न वा दृष्ट्यपूतं पादं न्यस्यामीति स्वनिर्लेपत्वसोपयोग त्वख्यापनेन च लोको मामनुरज्यविति लोकरञ्जनार्थ नीचे नम्रतयाऽधश्च यथाक्रमं यद्गमनानि गतागतानि दर्शनानि विलोकनानि च तैः कृत्वा, स्वसत्याङ्गमर्मघातमहाव्यथाम्-स्वं स्वकीयं सत्यं सत्यव्रतं शास्त्रविहितं समाचरिष्यामीति प्रतिज्ञातं सदाचरणं तदेवा . शरीरमिव परिपालनीयस्वादशं तस्य मर्माणि सार भूते कोमले स्थाने यो घातोऽपालनजनिता प्रतिज्ञाताऽऽवश्यकांशहानिः प्रहारश्च, तज्ज. निता या महती दुःसहत्वादत्यधिका व्यथा पीडा ताम , शंसयन्तिकथयन्तीव, लक्षयन्तीत्यर्थः । मर्भघातपीडया हि नता भवन्त्यूल दष्टुं च न प्रभवन्तीति लोके बहुशों दृश्यते इति भावः । लोकरञ्जनार्थमशास्त्रविहिताचरणानि मन्दसत्त्वविजृम्भितानि गृहीतव्रतः मर्मच्छेदकराणि दुरितानुबन्धित्वादूर्गतिप्रदानि चेति महासत्त्वैरनाचरणीयान्येवेति हृदयम् ।। ६ ॥ ___ नन्वेवं लोकानुसरणेन यत्र धर्मसिद्धिस्तत्र तदुपादेयं वाधकाऽभावादिति सामान्यतो लोकसंज्ञारतिनिषेधो न युज्यत इति शिष्यविप्रतिपत्ति बिभिन्सुराह