________________
२४०
भद्रङ्करोदयाख्यव्याख्याविभूषित
गृहस्था अन्ये च लौकिक श्रेयः साधनतत्परास्तेभ्य उत्तरोर्वभाविनी तद्विलक्षणा स्थितिः प्रवृत्तिमर्यादा यस्य स तादृशः, गृहिजनविलक्षणप्रवृत्तिमास्थित इत्यर्थः अद्रिपक्षे च सुगमार्ग लोकैरन्यैर. ज्ञातं प्राप्त इत्यतो लोकोत्तरस्थितिः अत एव, लोकसंज्ञारत:लोकस्य गृहिजनादिप्रकारस्य परमार्थज्ञानहीनत्वाद्धर्मशास्त्रविरुद्ध प्रवृत्तिकस्यलौकिकश्रेयोमात्रप्रवृत्तस्य लोकपूजार्थं तत्कृतत्वात्तदामितत्वाच तत्सम्बन्धिनी या संज्ञा हेयोपादानोपादेयत्यागात्मकलौकिकश्रेयःसाधनविविध सावधप्रवृत्तिः, लोकप्रवाह इति यावत् । तस्यां रतःप्रेम्णा व्यापृतः, तत्पर इत्यर्थः । पक्षान्तरे लोकसंज्ञया लोकप्रवाहेन " नाऽयंमार्गःसुग" इत्यादि लोकोक्त्या रतो विरतः, न-नैव, स्याव-भवेत् । लोक संज्ञाया लौकिकश्रेयः साधनत्वेऽपि. सावद्यत्वेन पारलौकिकश्रेयः परिपन्थित्वादिति बोध्यम् । यथा पर्वतारोहकः सुमार्ग प्राप्य लोकप्रवादान्न तत्त्यजति, अन्यथाऽsरोहणमेव न स्यात् , तथा मुनिः, सर्वविरतेश्चातबनिरोधात्मकसंबररूपतया भवोच्छेदसमर्थत्वातामास्थितः शास्त्रसम्मत्तामेव लोकविरुद्धामपि प्रवृत्तिमाश्रयति, न लोकप्रवृत्तिम् , तस्या भवानुबन्धितया विरुद्धत्वादयोग्यत्वाच्चेति मुनि र्लोक संज्ञारतो न स्यादिति भावः । नालौकिकस्थिते लौकिकप्रवृत्तिरनुरूपाऽनुगुणावेति हृदयम् ॥ १ ॥
ननु " यद्यपि शुद्धं लोकविरुद्धं नाचरणीयं नादरणीयमिति मतिमतां मतस्थितिः, भवता च तद्विरुद्धं : लोक संज्ञारतो न