________________
ज्ञानसारे सर्वसमृद्धयऽष्टकम्
२०९
न-नैव, विकाराय-वस्तुन उपचरितरूपोपदेशादिनाऽज्ञानात्मकाऽपकाराय, निर्मिता:-लब्धात्मलामाः, प्राप्तजन्मान इत्यर्थः । सन्तीति शेषः । नहि स्वमते कस्याऽपीश्वरादिना निर्माणमपि तुकर्मवशात्स्वयमेव प्राणिनो निर्मीयन्त इति बोध्यम् । तत्त्वदृष्टयो हि प्रयोजनाऽभावेऽपि निर्हेतुकपरमकारुणिकत्वादेव तत्त्वोपदेशेन विश्वस्योपकुर्वन्ति, न तु कदाचिदपि दाम्भिकवदपकुर्वन्त्यपीति तत्त्वदृष्टय एव सर्वथा प्रशस्या आश्रयणीयाश्चेति भावः ।। ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यासप्रवरश्रीयशोभद्रविजयजीगणिवरशिष्यपन्यासश्रीशुभकरविजयगणिविर. चितायां भद्रकरोदयाख्यायां व्याख्यायां तत्त्वदृष्टयष्टकं
नामैकोनविंशतितमाऽष्टकम् ॥ १९ ॥
॥ अथ सर्वसमृद्धयष्टकम् ॥ नन्वन्तु तत्त्वदृष्टिस्तत्त्वदृष्टया विश्वस्योपकाराय, तया तस्य को लाभोऽन्तरेणोक्ततत्त्वदृष्टिमाहात्म्याद ग्रामारामादिसमृद्ध्यनुपभोगमिति शिष्योपालम्भं सर्वसमृझ्यष्ट केनाऽगनिनीषुरादौ सर्वसमृद्धिलाभमेवाह
बाह्यदृष्टिप्रचारेषु मुद्रितेषु महात्मनः । अन्तरेवाऽत्रभासन्ते स्फुटाः सर्वाः समृद्धयः ॥ १॥
बाह्येत्यादि । बाह्यदृष्टिप्रचारेषु-वाह्यदृष्टिरुक्तप्रकारा रूपवतीदृष्टिस्तस्या ये प्रचारा व्यापारा रूपे रूपदर्शनाद्यात्मकाः पूर्वोक्ता.
१४