SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे तत्त्वदृष्टयऽष्टकम् २०३. रागस्याऽभावो विरागमितिवा, तदेव वैराग्यम् , तस्य सम्पदे समृ. दये, वैराग्याऽऽधिक्यायेत्यर्थः । जायते इति शेषः । सातिशयं वैराग्यं जनयतीत्याशयः । विषया बहिदृष्ट्या दृष्टा मोहाय तत्त्व. दृष्टया दृष्टाश्च वैराग्यायेति निष्कर्षः । विषयाश्चिन्तामणिकल्पा इति ततो दृष्टयनुसारेणैव फलम् । नहि विषयाः सम्पृक्ताः स्वतो मोहाय वा वैराग्याय वा । किन्तु दृष्टयनुसारेणैव ते फलप्रदाः। बहिदृष्टयो हि तानतादृशानपि स्वत्वेन सुखादिनिमित्तत्वेन च पश्यन्तीति तेषां ततस्तादृशमोहात्मकमेव फलम् । तत्त्वदृष्टयस्तु तान् याथात्म्येनैव पश्यन्तीति तेषां न ततस्तादृशो मोहोऽपितु तदनिष्टपरिणामज्ञानाचतो विरक्तिप्रकर्ष एवेति विषयसम्पर्कस्य दुष्परिहत्त्वेऽपि तत्व. दृष्टीनां ततो लाभ एव न दोष इति बाह्यदृष्टिं विहाय तत्त्वदृष्टये यतनीयमिति हृदयम् ॥ ३ ॥ यदुक्तं मोहाय वैराग्यसम्पदे इति च । तत्र सा कीदृशी दृष्टिद्वयी, यतो विभिन्नं फलमिति शिष्यजिज्ञासां समाधिस्सु बाह्यदृष्टिः तत्त्वदृष्ट्य ईष्टिमेदमेव श्लोकचतुष्टयेन बिवृण्वन्नादौ स्त्रीविषय एक तद्विवृणोति बाह्यदृष्टेः सुधासारघटिता भाति सुन्दरी । तत्वदृष्टेस्तु सा साक्षाद्विण्मूत्रपिठरोदरी ॥ ४ ॥ बाह्यदृष्टरित्यादि । चाह्यदृष्टे:-बाह्येषु वनितादिषु दृष्टिर्मतिर्यस्य सः, बहिर्बिषयस्य बहुमानिमतेरित्यर्थः । अज्ञानिनो मोहपरवशस्य जनस्येति यावत् । सुन्दरी-लोके सौन्दर्यशालितया ख्याता यथा
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy