________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते'
मध्यस्थाऽष्टकमाह
स्थीयतामनुपालम्भं मध्यस्थेनाऽन्तरात्मना । कुतर्ककर्करक्षेपैस्त्यज्यतां बालचापलम् ॥१॥
स्थीयतामित्यादि । अन्तरात्मना-अन्तःकरणेन, मध्यस्थेनमध्ये पक्षप्रतिपक्षयोरभ्यन्तर एवोभयोः क्वाऽप्यनाग्रहात्परमार्थतो वस्तुतत्त्वग्रहमात्रकृतादरस्तिष्ठतीति स तादृशो मध्याथो वक्ष्यमाण लक्षणो नयेषु समशीलो रागद्वेषहीनः, तेन तादृशेन कृत्वा, अनुपालम्भम्-न उपालम्भोऽपवादो यथा स्यात्तथेति स्थिति क्रिया विशेषणमेतत् । स्थीयताम्-आस्यताम् । यो ह्यन्तःकरणेन मध्यस्थो भवति न तु बहिः प्रदर्शनमात्रेण, तस्यैव पारमार्थि वस्तुतत्त्वमहरूपविवेकोश्य इति न तस्व कुतोऽप्यपवादसम्भवः, पक्षपातिन एव तदवसरात् । तथा च मध्यस्थमनसो विवेक एवोपालम्माऽविषयत्वाद्विवेक इति भावः यद्वा-अन्तरात्मना-देहिना, यदुकम्-" परमात्मा सिद्धि प्राप्तौ बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद्देह इत्येष त्रिविधः शिव" इति । मध्यस्थेन सताऽनुपालम्भ स्थीयतामित्यर्थः । यो हि जीवो मध्यस्थो भवति सोऽनुपालम्भ तिष्ठति । अत एव तस्यैव विवेकः सर्वमान्यो भवति, आग्रह परिहारपूर्वकवस्तुतत्त्वनिर्णयादिति भावः । जलावितण्डे परिहृत्यः वादेन स्थेयम् । तथा सति च यादृशं वस्तुस्वरुपं निर्णीयते, तद्बोक एव विवेक इति न विवेको दुर्वचो दुर्लभश्चेति हृदयम् । उपादेयमुपदिश्य हेयमुपदिशन्नाह-कुतर्ककर्करक्षेपै--कुत्सिता