SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते . देहात्मेति । अयम्-विवेकप्रस्तावाद्विरोधसम्बन्धेनोपस्थितः, देहात्माद्यविवेक:-देहः कार्मणादिशरीरपञ्चकम् , तत्राऽऽ:मना, आदिना दाराऽगारादौ ममत्वस्य चाऽविवेको भेदाऽग्रहोऽस्मिस्तबुद्धिश्च । देहेऽहमित्येवं दारादौ च ममेत्येवमविवेक इत्यर्थः । भवे-जन्मनि, संसारे इत्यर्थः । सर्वदा-सर्वस्मिन् काले, सर्वत्र भवे सर्वस्मिन् काले चेत्यर्थः। यदि ह्य कस्मिन्नेव भवे स्यात्सर्वस्मिन् काले न स्यात् । कालान्तरे भवाऽन्तरस्याऽपि भावात्तत्राऽपि च तादृशाऽविवेकसत्त्वाचेति बोध्यम् । सुलम:विना प्रयत्नं लभ्यः । देहात्माद्यविवेकस्याऽनादिकालप्रवृत्तत्वात् , तथैव श्रवणादभ्यासादनुभवाच्चात्मनस्तद्वासनाया दृढं वासितत्वादिति बोध्यम् । न च विवेकस्तथेत्याह-भवकोट्येति। तु विशेषे मेदे च । तदाह-तभेदविवेकः-तेषां देहात्मादीनां भेदस्य जाव. चैतन्यात्मकलक्षणभेदादनैक्यस्य विवेकः क्रियापोषितो ग्रहः । यद्यपि विवेको मेदग्रह एवेति भेदपदमधिकं प्रतिभाति, तथाऽपि विशिष्टवाचकपदस्य विशेषणवाचकपदसमवधाने विशेष्यमात्रपर त्वात्समाधानीयम् । भवकोट्या-भवानां जन्मनां कोटिः कोटि. • सङ्ख्या तया, कोटिभवेनाऽपीत्यर्थः । अपिना कोटिभवस्याऽति सुदीर्घकालत्वं गुरुतर कार्येऽपि पर्याप्तत्वं च ध्वन्यते । अतिदुर्लभःअयस्याऽपि लब्धं दुष्करः । अविवेकस्य सुलभत्वाद् दृढबद्धमूलत्वादुरुच्छेद्यत्वात्तादृशविवेकप्राप्त्युपयोगिश्रवणादेरपि दौर्लभ्याच । तदेव हि दौर्लभ्येऽतिशयो यल्लभ्यस्याऽतिसुदीर्घकाललभ्यताऽति महापयाससाध्यता च । एवञ्च कतिपयेषु भवेषु प्रयाससाध्यत्वे
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy