________________
१५२
भद्रकरोदयाख्यव्याख्याविभूषिते इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते शानसारे विद्याष्टकं नाम चतुर्दशमष्टकम् ॥ १४ ॥ .. अविद्येति । योगिनः-योगश्चित्तवृत्तिनिरोधस्तद्वन्तः, आत्म. साक्षात्काराय प्रयतमाना इत्यर्थः । यद्वा योगः सम्यग्दर्शनज्ञानचारित्राणि, " इति ते योगमाहात्म्यं कथं श्रद्धीयतां परैरि" त्यत्र " इत्येष योगसाम्राज्यमहिमा विश्वविश्रुत " इत्यत्र च योगपदस्व तथार्थपरत्वदर्शनादिति बोध्यम् । सोऽस्त्येषामिति ते त दृशाः सभ्यग्दर्शनादिरूपरत्नत्रयमण्डिता इत्यर्थः । अन्यादृशस्याऽऽत्मसाक्षास्काराऽनधिकारादिति बोध्यम् । अविद्या तिमिरध्धंसे-अविद्याऽनित्याऽशुच्यनात्मसु नित्यशुच्यात्मताख्यातिस्तदेव वस्तु याथात्म्य परिच्छेदपरिपन्थित्वात्तिमिरमन्धकार इव तस्य ध्वंसे नाशे सति, " अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तम " इत्यमरः । विद्याञ्जनस्पृशा-विद्योक्ततत्त्वधीरेव दृष्टिविशुद्धिसाघनत्वादञ्जनमिव तत्स्पृशति सम्बध्नातीति सा तया, विद्यानुगतयेत्यर्थः, तादृश्या, दृशा-ज्ञाननेत्रेण कृत्वा, शुद्धज्ञानेनेति समुदित सारार्थः । आत्मनि-स्वस्मिन्नेव तादृशज्ञानादिमत्यन्तरात्मनि, न त्वन्यत्रेवेवकारार्थः । हि-सुकरतया, परमात्मानम्-शुद्धसच्चिदानन्द स्वरूपमात्मानम् , तदेव ह्यात्मनः परमत्वं यच्छुद्धसच्चिदानन्दमयत्वमिति भावः । पश्यन्ति-जानन्ति । दृश्यर्था ज्ञानार्था इति बोध्यम् । अञ्जनेन हि दृशो दोषाऽपगमाद्विमलीकाराच्च वस्तुनः स्पष्टतयां परिच्छेद इति प्रसिद्धम् । तथाऽविद्यानाशे विद्यासंस्कृतेन ज्ञानेन शुद्वात्मसाक्षात्कार इति, परमार्थः । यद्वाविद्याञ्जनस्पृशा दृशाताहशा