________________
१३०
भद्रङ्करोदयाख्यव्याख्याविभूषिने प्रासादादिकं गृहम् , उपलक्षणत्वात्स्रक्चन्दनाङ्गनादिकं भोगोपभोगसाधनमुत्तमसुखनिमित्तमिति प्रसिद्धम् । एवञ्चाऽत्र चक्रिपदे लक्षणया चक्रिसम्बन्धितादृशसामग्रीजन्यसुखपरम् । नहि चक्रिणोऽधिकं सुखम् , सजातीयेष्वेव तारतम्यव्यपदेशात् । अपि तु चक्रिसुखादिति मुख्यार्थबाधात् । चक्रिणोऽपि सुखमपेक्ष्येत्यर्थः । यब्लोपे पञ्चमी । अधिकम्-उत्कृष्टत्वाचिरस्थायित्वाचाऽतिमात्रम् , सुखम्-शर्म, भवतीति शेषः । तदेतत् , अहो ?-आश्चर्यम् । दुःखसामग्रीसद्भावेऽपि तदननुभवः सुखसामग्र्यभावेऽपि चाऽलौकिकाऽनुत्तमसुखाऽनुभव इति निःस्पृहताया अतिविस्मयकरः प्रभावः इत्यर्थः । निःस्पृहस्य हि सन्तोषजन्यमात्ममात्रसापेक्षं निरुपाधिक च सुखमिति तत्र शय्याविशेषादिकं साधनत्वेनाऽनपेक्षितम् । न च तादृशं चक्रिणः सुखम् , तेषां स्पृहाया एकस्याः पूरणेऽपि परस्या उद्गमात्कथञ्चित्साधनवैकल्ये दुःखमात्रस्यैवाऽवशेषात्साधनसद्भावेऽपि तदर्थ प्रयासस्य तदपहारभयस्य च सत्त्वादुःख सम्भिन्नत्वाकृत्रिमत्वादनात्मस्वभावत्वाच्च तत्सुखं निस्पृहसुखाऽपेक्षया न्यूनमेवेति सुष्ठूक्तम्-" चक्रिणोऽप्यधिकं सुखमि " ति । यदुक्तम्" सन्तोषाऽमृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावतामि"ति भावः । अत्र दुःख सामग्रीसत्त्वे सुखाधिक्यं विरुद्धमितिविरोधाऽऽभासोऽलङ्कारः। विरोधपरिहारस्तूक्तदिशा सुखस्य विलक्षणसुखपरतया बोध्यः ॥ ७ ॥
ननु भवतु निःस्पृहस्याऽधिकं सुखम् , न च तावता चक्रिणो