SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे निर्लेपाऽष्टकम् ११३ 9 मानम्, पुद्गलस्कन्धः पुद्गलै लिप्यते मूर्त्तत्वात् यन्नैव तन्नैवं यथा व्योमेति व्यतिरेक्यनुमानं च प्रतिपादितमवगन्तव्यम् । ततश्चाऽल्पबुद्धीनामप्युक्ताऽनुमानबलादज्ञ्ज सैवाऽऽत्मा निर्लेप इति मतिदा जायत इति तात्पर्यम् । तदाह - इति उक्तप्रकारेण, ध्यायन्- चिन्तयन् उक्ताऽनुमानेनाऽऽत्म पुद्गल योगेंदमूलकमसम्बन्धं मनसि भावयन् जीव इत्यर्थः । न लिप्यते-न कर्मादिभिराश्लिष्यते । स एव खलु लेपो यत्पुद्गलधर्मस्याऽऽत्मन्यध्यासः । उक्तानुमानेन च पुद्गलधर्मस्याऽऽत्मनि बाघनिश्चयान्न लिप्यताबुद्धयुन्मेषाऽवसर इति भावः ॥ ३ ॥ 9 ननु यदि 'पुद्गलै नहिं लिप्ये ' इति ध्यानादेव निर्लेपता साध्या, तर्हि तस्य क्रियया न प्रयोजनम्, ध्यानादेवेष्टसिद्धेरिति शिष्य जिज्ञासां समाधित्सुराह - लिप्तताज्ञानसम्पातप्रतिघाताय केवलम् । निर्लेपज्ञानमग्नस्य क्रिया सर्वोपयुज्यते ॥ ४ ॥ लिप्ततेति । निर्लेपज्ञानमग्नस्य - निर्लेपस्य तद्विषयकत्वात्तसम्बन्धि, " अहं निर्लेप " इत्येवं यज्ज्ञानं शुद्धसच्चिदानन्दमयत्वादमूर्त्तस्य पुद्गलादिमलसम्बन्धाऽयोग्यत्वाच्चाऽहमात्मा निर्लेप इत्येवंप्रकारोऽध्यवसायस्तत्र मग्नस्य तदेकनिष्ठस्य साधोः, सर्वा-अखिला, न तु काचिदेव, क्रिया - आवश्यकादिका क्रिया, केवलम् - एकलिप्तताज्ञानसम्पातप्रतिघाताय - लिप्तताया अहं मात्रम्, ८
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy