________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
आत्मा) 'आद्यः सालम्बनो नाम योगः' प्रथमःशुभोपयोगरूपः समाधिः 'सालम्बनो योगः' प्रशस्तालम्बनसहितो योगः सालम्बनयोग उच्यते, परो द्वितीयो निर्विकल्पक समाधिस्वरूपशुद्धोपयोगात्मको निरालम्बनःक्षीणवृत्तिकः स्वात्मनि लयप्राप्तियोगेनाथवा स्वात्मानुभवपरिपाकेन सदा निरालम्बनयोगः कथ्यते आलम्ब्यैकपदार्थं यदा न किञ्चिद्विचिन्तयेदन्यत्तदा चेत उपशान्तं स्यात्, शान्ते मनसि ज्योतिः प्रकाशने शान्तमात्मनः सहजं भस्मीभवत्यविद्या, मोहध्वान्तं विलयमेति, ध्यातव्यः परमात्मा सन्निहितो ध्यानतो भवतीति 'छायायां दर्पणाभावे मुखविश्रान्तिसन्निभ:'एवं सालम्बननिरालम्बनात्मकयोगावधुनातनकालापेक्षया षष्ठसप्तमगुणस्थानकं यावत् परिवर्तनशीलौ स्तः, क्षणात्सालम्बनः षष्ठे सप्तमे च क्षणानिरालम्बनोऽप्रमत्तो भवति । अष्टमगुणस्थानादारभ्योपशमक्षपकश्रेणिगतोत्कृष्टध्यानसमाधियोगतस्त्रयोदशगुणस्थानगतोत्कृष्टनिरालम्बनयोगरूपदर्पणस्याभावे, षष्ठसप्तमगुणस्थाने प्राप्य सालम्बननिरालम्बनयोगरूपच्छायायां आत्मरमणतानामकसमाधिरूपमुखस्य प्रतिबिम्बस्थानीयसमाधिसुखप्राप्तिरूपविश्रान्तिरवधार्येति ॥ १६॥ १७ ॥
इन्द्रियानिन्द्रियगम्यं न शुद्धद्रव्यलक्षणम्यदृश्यं यच्च निर्वाच्यं, मननीयं च यद्भुवि । तद्रूपं परसंश्लिष्टं, न शुद्धद्रव्यलक्षणम् ॥ १८ ॥
यत्स्वरूपं चर्मचक्षुषा दृश्यं-दर्शनगोचरं, यच्च-यत्स्वरूपं वाचां गोचरं निर्वाच्यं यद् भुवि मननीयं यत्स्वरूपं भुवि-पृथिव्यां मननीयं-मनसा गम्यं, तद्रूपं-तत्स्वरूपं बाह्यत्वेन परसंश्लिष्टं बाह्यभावरूपकर्मादिनिर्मितदेहादिसंश्लेष-संयोगयुतं, शुद्धनिरावरण-निर्विकारात्मद्रव्यस्य लक्षणं-असाधारणधर्मस्वरूपं न परन्त्वशुद्धसावरणसविकारात्मद्रव्यलक्षणमिति ॥ १८ ॥