________________
६५
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
सर्वं परवशं दुःखं तल्लक्षणयोगात् सर्वमात्मवशं सुखमत एव हेतोः, एतदुक्तं मुनिना समासेन-संक्षेपेणलक्षणं-स्वरूपं सुखदुःखयोरिति, पुण्यापेक्षमपि सुखं परवशं स्थितं पुण्यस्य परत्वात्, ध्यानजं तात्त्विकं सुखमपरायत्तत्वात्, कर्म-वियोगमात्रजत्वादिति ॥ १२ ॥
ज्ञानमग्नताजन्यं सुखमनुपमम् - ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव पार्यते । नोपमेयं प्रियाश्लेषै- पि तच्चन्दनद्रवैः ॥ १३ ॥
'ज्ञानमग्नस्ये 'ति आत्मज्ञानमग्नतावतः पुरूषस्य, 'यच्छर्म' यत्सुखं समुद्भवति तद्वाचामगोचरः, शब्दातीतं वर्तते 'तत्सुखं' प्रियायाः-प्रियतमाया आश्लेषैः-आलिङ्गनै:सह नोपमीयते, तथा चन्दनविलेपनेनापि सह नोपमीयतेऽर्थात् सर्वोपमातीतमद्वैतं शर्म ज्ञानमग्नस्य वर्त्तते इति ॥ १३ ॥
कीदृशः साधोः पर्यायवृद्धितः प्रशमसुखवृद्धिः?तेजोलेश्याविवृद्धिर्या,( साधोः) पर्यायक्रमवृद्धितः।
भाषिता भगवत्यादौ, सेत्थंभूतस्य युज्यते ॥ १४ ॥ - संसारनैर्गुण्यजवैराग्यवान् भूत्वा प्रव्रजितोऽभूत्, यहिने साधुर्जातस्तहिनादारभ्य चारित्रजगति प्रथम-प्रवेशेनापूर्वानन्दः प्रतिदिनं प्रवर्धमानो दिव्यानन्दमपि लङ्घमानो द्वादशमासिकसंयमपर्याये त्वनुत्तरविमानवासिनस्तेजोलेश्या (आन्तरसुखं चित्तसुखं सुखासिका) याऽऽसीत्, ततोऽतिशायिनी सा तेजोलेश्या इत्थंभूतस्य-ज्ञानदर्शनचारित्रादियोगे रममाणस्य, आत्मज्ञाने मग्नस्य, पौद्गलिकविषयविषेष्वप्रलग्नस्यपरभावपर्यायगतकर्तृत्वबुद्धिरहितस्य-निरञ्जनस्य साधो भवतीति भगवतीप्रभृतिसूत्रे तेजोलेश्याविवृद्धिर्भाषिता भगवता महावीरेणेति ।