SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३१ नैगमनयादारभ्यैवंभूतनामकपर्यन्तभेदवन्नयचक्रं तत् स्पष्टमन्ततो गत्वा प्रमाणत्वप्राप्तिरूपपरिवर्त्तनेऽपि अपेक्षाभेदवद् भवति तथाहि 'अभिप्रेताश्रयेणैव निर्णयो व्यवहारक : ' तत्र नयचक्रे परावृत्तौ सत्यामपि, स्वस्वाभिप्रेतधर्ममाश्रित्य निर्णयः - प्रमाणत्वं, व्यवहारकः - व्यवहारकारको भवति नान्यथेति ॥ ४१ ॥ प्रथम शास्त्रयोगशुद्धि-अधिकारः अनेकान्तेऽप्यनेकान्तात् कथं न परावृत्तिः ?अनेकान्तेऽप्यनेकान्ताद- निष्ठैवमपाकृता । नयसूक्ष्मेक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः ॥ ४२ ॥ एवम् अपेक्षाभेदतोऽभिप्रेताश्रयेणैव निर्णयो व्यवहारकारी भवत्यतः अनेकान्तेऽपि-अनेकान्तपदेऽपि अनेकान्ततः परावृत्ति :- एकान्ते परिवर्त्तनमनिष्ठत्वेनापाकृतं खण्डितमेव यतो नयविषयकसूक्ष्मेक्षिकायाः प्रान्ते विश्रान्तेः प्रमाणत्वप्राप्तेः सुलभत्वहेतोः, अनेकान्ततोऽनेकान्तपरावृत्तिरनिष्टत्वेनैवाऽपाकृतेति, (अनेकान्तव्यवस्था प्रकरणे, पृ. ८३ = ननु सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तप्रसक्तिरिति चेदत्र वदन्ति, 'भयणाविहुभइयव्वा, जहभयणासव्वदव्वाइं । एवं भयणानियमोऽविहोइसमयाविरोहेण ॥ ३२७ ॥ यथा भजनाऽनेकान्तो, भजते सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति तथा भजनाऽपि अनेकान्तोऽपि, भजनीया - अनेकान्तोऽप्यनेकान्त इतीष्टमस्माकं इति नयप्रमाणापेक्षयैकान्तश्चानेकान्तश्चेत्येवमसौ ज्ञापनीयः । तथाहि नित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाद्येकतरधर्माऽवच्छेदकावच्छेदेनैकतरधर्मात्मकत्वमुभयाऽवच्छेदेन वो भयात्मकत्वं तथा नित्यानित्यादि - सप्तधर्मात्मकत्वप्रतिपादकतापर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्याऽवच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः ।
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy