SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् 'नैगमः ' नैगमनयोऽनेकधा प्रतिपत्त्रभिप्रायतोऽनेकधा निगमनात्रैमोsनेकभेदः - 'अपरमभावे'= उत्कृष्टभिन्नमध्यमजघन्याऽध्यवसायरूपे भावे ‘तारतम्यं' न्यूनाधिक्यं तरतमत्वं स्फुटं प्रवदतु स्पष्टं प्रकर्षेण कथयतु, तावता-तावता-तावन्मात्रेण, विशिष्टज्ञानयोगी, न हृष्येत्, -न हर्षवान् भवेत्, 'चिच्चमत्कारसारं’=ज्ञानकृतानामाश्चर्याणां सारं यत्र तत्, 'कलितपरमभावं '= कलितः- संज्ञातः संप्राप्तो वा परम:- उत्कृष्टो भावः - परिणामो येन तत् सकलनयविशुद्धं- सर्वनयपवित्रं, एकमद्वितीयं चित्तमन्तःकरणं विशिष्टचैतन्यं वा प्रमाणं - साक्षिभूतं स्वपरनिर्णायकं ज्ञानं प्रमाणं वेति ॥ ६२ ॥ ९६ निश्चयो नो बिभेति हरिरपरनयानां गर्जितैः कुञ्जराणाम्, सहजविपिन सुप्तो, निश्चयो न बिभेति । अपि तु भवति लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन्, गलितमदभरास्ते नोच्छुवसन्त्येव भीताः ॥ ६३ ॥ - अपरनयानां कुञ्जराणां गर्जितैः- निश्चयभिन्नानामन्येषां नयानां कुञ्जराणांगजानामिव गर्जितैः ध्वनितै:, 'सहज - विपिनसुप्तो' सहजं स्वरूपं तदेव विपिनमरण्यं तत्र सुप्तः = शयितः निश्चयो - निश्चयात्मको नयो हरिरिव - वनराजकेसरिसिंह इव नो बिभेति न भयमुपैति, भयाभावमात्रं नापितु लीलया -क्रीडया (विलासतः) उज्जृम्भि - विकासि (विवृत) जृम्भया जृम्भणेनोर्वं मुखं यस्य स उन्मुखः, तस्मिन - लीलोज्जृम्भिजृम्भोन्मुखेऽस्मिन् 'भवति'- निश्चयरूपे हरौ सति, ते - कुञ्जराः भीताः- भययुताः 'गलितमदभराः' गलितः - पतितः मदभर :- दानसमुदायो येषां ते गलितमदभराः सन्तः 'नोच्छ्वसन्ति एव' श्वासोच्छ्वासरहिता एव अर्थाद् मृता एवं भवन्तीति ॥ ६३ ॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy