SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आसां व्याख्या - गुरोः पुरतः पार्श्वयोरासन्ने च पृष्ठतः प्रत्येकं गमनं स्थानं निषीदनं च कुर्वतः ९। गुरोः पूर्वं बहिर्गतेनाचमनम् १०। पूर्वं गमनागमनालोचनम् ११। रात्रौ ‘कः स्वपिति को जागर्ति ?', इति पृच्छति गुरौ जाग्रतोऽप्यप्रतिश्रवणम् १२। साध्वादेरागतस्य प्रथममालापनम् १३। भिक्षां शैक्षकस्य कस्यचिदालोच्य पश्चाद्गुरोरालोचनम् १४। एवमुपदर्शनम् १५। निमन्त्रणं च १६। गुरुमनापृच्छय यथारुचि साधुभ्यः ‘खद्धत्ति' प्रचुरं ददतः १७। गुरोर्यत्किंचिद्दत्त्वा स्वयं स्निग्धमधुराद्युपभोगोऽदनम् १८। अप्रतिश्रवणं रात्रिवच्छेषकालेऽपि १९ । 'खद्धत्ति' गुरुं प्रति निष्ठुरं भणनम् २०। 'तत्थगयत्ति' तत्रस्थस्यैव प्रतिवचनं ददतः २१। गुरुं प्रति किमिति भणनम् २२। त्वंकारश्च २३। गुरुणा इदं कुरु इत्युक्तो यूयमेव किं न कुरुध्वम् ?', इति तथावचनम् २४। गुरौ कथां कथयति उपहतमनस्त्वम् २५ । न स्मरसि त्वं नायमर्थः सम्भवति २६। स्वयं कथाकथनेन कथाछेदनम् २७। 'अधुना भिक्षावेला', इत्यादिमिषैः पर्षद्भेदनम् २८ । अनुत्थितायां पर्षदि सविशेषकथनम् २९। गुरुशय्यादेः पादेन घट्टनम् ३०। 'चिट्ठत्ति' गुरुशयनादौ निषीदनादि ३१। एवमुच्चासने ३२, समासनेऽपीति ३३॥ तथा त्रिविधं वीर्याचारं मनोवचनकायवीर्याचारलक्षणं सुप्रतीतमेव। इति गाथार्थः॥३६॥ अथ षट्त्रिंशत्तमी षट्त्रिंशिकामाह - गणिसंपयट्टचउविह, बत्तीसं तेसु निच्चमाउत्तो। चउविहविणयपवित्तो, छत्तीसगुणो गुरू जयउ॥३७॥ व्याख्या - गणिसम्पदस्तावदष्टाष्टसङ्ख्याकाः ताः प्रत्येकं चतुर्विधाः इति द्वात्रिंशत्, तेषु द्वात्रिंशद्गणिसम्पद्रेदेषु नित्यमायुक्तः, तथा चतुर्विधविनयप्रवृत्तः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः।। __विस्तरार्थस्त्वयम्- आचारसम्पत् १, श्रुतसम्पत् २, शरीरसम्पत् ३, वचनसम्पत् ४, वाचनासम्पत् ५, मतिसम्पत् ६, प्रयोगमतिसम्पत् ७, सङ्ग्रहपरिज्ञा१. ब-पुस्तके-“स्वयं कथनेन" इत्यपि॥ त्रिविधं वीर्याचारम्, द्वात्रिंशत् गणिसम्पदः ...२३९...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy