SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जरमरणरोगसोगा - इएहिँ अइदारुणं भवसरूवं । पयडिज्जइ जीए सा, निव्वेअणिदेसणा तुरिया ॥ ४ ॥ ' तथा चतुर्विधा कथा । यथा - अर्थकथा, कामकथा, धर्मकथा, सङ्कीर्णकथा चेति। यदुच्यते ― 'अर्थं कामं च धर्मं च, तथा सङ्कीर्णरूपताम् । आश्रित्य वर्तते लोके, कथा तावच्चतुर्विधा ॥ १ ॥ सामादिधातुवादादि - कृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्त्तिता ॥ १ ॥ सङ्क्लिष्टचित्तहेतुत्वात्, पापसम्बन्धकारिका । तेन दुर्गतिवर्तिन्याः, प्रापणप्रवणा मता ॥ २ ॥ कामोपादानगर्भार्था, वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता ॥ ३ ॥ सा मलीमसकामेषु, रागोत्कर्षविधायिका । विपर्यासकरा तेन, हेतुभूतैव दुर्गतेः ॥ ४ ॥ दयादानक्षमाद्येषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते ॥ ५ ॥ सा शुद्धचित्तहेतुत्वात्, पुण्यकर्मर्विनिर्जरे । विधत्ते तेन विज्ञेया, कारणं नाकमोक्षयोः ॥ ६ ॥ त्रिवर्गसाधनोपाय- प्रतिपादनतत्परा । याऽनेकरससारार्था, सा सङ्कीर्णकथोच्यते ॥ ७ ॥ चित्राभिप्रायहेतुत्वादनेकफलदायिका । विदग्धताविधानेन हेतु भूतैव सद्गतेः ॥८ ॥ ' - तथा चतुर्विधो धर्मः । यथा - दानधर्मः १, शीलधर्मः २, तपोधर्मः ३, भावधर्मः ४ चेति । तत्र दानधर्मस्त्रिधा - ज्ञानदानम् १, अभयदानम् २, धर्मोपष्टम्भदानम् ३ च । तत्र ज्ञानदानं यथा १. विनिर्जरम् ॥ ...१६०... चतुर्विधा था
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy