SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीवज्रसेनाभिधसूरिराजैः, सुसूत्रधारैरिव यैर्व्यधायि। अयं जनोऽप्यश्मसमोऽभिवन्द्य-स्तेभ्यो गुरुभ्योऽस्तु मम प्रणामः॥११॥ एवं देवगुरुभ्यः, कृतप्रणामोऽहमल्पबुद्धिरपि। विवृणोमि सुगुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकम्॥१२॥ इह हि शिष्टसमयानुसारतो मङ्गलार्थमभीष्टदैवतनमस्काराविर्भाविकां सम्बन्धादिगर्भा च सूत्रस्येमामादिगाथामाह वीरस्स पए पणमिय, सिरिगोयमपमुहगणहराणं च। गुरुगुणछत्तीसीओ, छत्तीसं कित्तइस्सामि॥१॥ व्याख्या- वीरस्य पादौ प्रणम्य गुरुगुणषट्त्रिंशिकाः षट्त्रिंशत्सङ्ख्याकाः कीर्तयिष्यामीति सण्टङ्कः। तत्र विशेषेण ईरयति प्रेरयत्यष्टकर्माणीति वीरः। यदाह 'विदारयति यत्कर्म, तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥' तस्य च श्रीवीरस्य श्रीसिद्धार्थभूपालविशालकुलकमलमार्तण्डमण्डलस्य श्रीत्रिशलादेवीकुक्षिसरसीरुहराजहंसस्य बाललीलादलितप्रसर्पद्दर्पसुपर्वाखर्वगविदातसन्तुष्टाखिलाखण्डलाधमरवृन्दपरिकल्पितवीरइतिनामधेयस्य तीर्थाधिनाथस्य पादौ प्रणम्य तथा श्रीगौतमप्रमुखगणधराणां च श्रीगौतमसद्गोत्रश्रीमदिन्द्रभूतिप्रभृत्येकादशगणनायकानां च। ते च इमे ‘पढमित्थ इंदभूई, बीए पुण होइ अग्गिभूइत्ति। तइए अ वाउभूई, तओ विअत्ते सुहम्मे अ॥१॥ मंडिअमोरियपुत्ते, अकंपिए चेव अयलभाया य। मेअजे अ पभासे, गणहरा हुंति वीरस्स॥२॥' एतेषां च पादौ प्रणम्य। एते च वक्ष्यमाणनिःशेषगुरुगुणानां आधारभूतत्वाद्विशेषतश्चात्र प्रणामार्हाः। तथा च "गृणाति सद्धर्म इति गुरुः।" स च १. वक्ष्यमाणा हि निरुक्तिरिति भविष्यति मध्यगता निरुक्तिदर्शिका पङ्क्तिर्न तूपलभ्यते कुत्राप्यादर्श इति निरुपाया संसद् भविष्यत्यन्यथा वा सूरेरभिप्रायोऽगोचरो नः॥ नमस्काराभिधेयादि ...१५७...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy