SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीमत्कान्तिविजयमुनिपुङ्गवसम्बन्धि नूतनं एकोनत्रिंशत्पत्रात्मकम्, इत्येवंरूपाणि पञ्च पुस्तकानि समुपलब्धानि । एतत्पुस्तकपञ्चकाधारेण संशोधनकर्मणि साहाय्यं समुपलभमानोऽहं पुस्तकसमर्पणोदाराणाममीषां महाशयानां, प्रेसकोपीनिरीक्षणेन साहाय्यं वितन्वतः पन्यासश्रीमदानन्दसागरस्यापि परोपकृति स्मृतिगोचरतां नयामि। पूर्वोक्तपुस्तकाधारेण महता प्रयासेन संशोधितेऽप्यत्र निबन्धेऽस्मदृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं सदयहृदयैः संविज्ञगीतार्थैरिति प्रार्थयते न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यप्रवर्तकश्रीमत्कान्तिविजयचरणचञ्चरीकः चतुरविजयो मुनिः॥ चन्द्रप्रा॒ङ्केलाब्दे, वैशाखसितप्रतिपदि गुरुवारे। चतुरविजयेन पत्तननगरे प्रस्तावना दृब्धा॥१॥ 0 शाम्येन धर्म कपटेन मित्रं, परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी, वाञ्छन्ति ये व्यक्तमपण्डितास्ते।। 0 प्रियवाक्यप्रसादेन, सर्वे तुष्यन्ति जन्तवः ।। तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता ?|| - गुरुं विना न विद्या स्यात्, फलं नैव विना तरुम् । नाब्धिपारो विना नावं, धर्मो भावं विना न हि ।। स्वश्लाघा परनिन्दा च, लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिन्दा तु, लक्षणं सदगुणात्मनाम् ।। श्रीगुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकप्रस्तावना लकप्रस्तावना ...१५१...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy