SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ધમપરીક્ષા यशो० : चक्षुर्ग्राह्यशरीरत्वं तूपलक्षणं न तु लक्षणमित्यावयोः समानं, अन्यथाऽस्माकं सूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिव तव मते बादरनिगोदेऽतिव्याप्तेरपि प्रसङ्गात् । चन्द्र० : ननु पृथ्व्यादिविविधव्यवहारयोगित्वं यदि प्राप्तसूक्ष्मनिगोदभिन्नत्वमेव, तर्हि प्रज्ञापनावृत्तिकृता किमर्थमेवमुक्तम् – ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्ति इत्यादि । एतत्पाठबलात्तु चक्षुर्ग्राह्यशरीरत्वमेव व्यवहारिलक्षणं प्रज्ञापनावृत्तिकृतोऽभिप्रेतमिति ज्ञायते, न तु प्राप्तसूक्ष्मनिगोदभिन्नत्वम् । तथा च सूक्ष्मपृथ्व्यादिषु प्रज्ञापनावृत्तिकृदभिप्रेतं लक्षणं भवन्मतेऽव्याप्तं स्यात् । यतो भवान् सूक्ष्मपृथ्व्यादीन् व्यवहारिणो मन्यते, तत्र च लक्षणं न समन्वेतीति । अस्माकन्तु सूक्ष्मपृथ्व्यादयोऽव्यवहारिण एवेति तत्र लक्षणसमन्वयाभाव इष्टापत्तिरेवेत्यत आह रे मुग्ध ! पूर्वपक्ष ! चक्षुर्ग्राह्यशरीरत्वं तु प्रज्ञापनावृत्तिकृदुक्तं उपलक्षणं = स्वज्ञापकं सत् स्वेतरज्ञापकम् । चक्षुर्ग्राह्यशरीरत्वं स्वबोधकं सत् प्राप्तसूक्ष्मनिगोदभिन्नत्वमपि ज्ञापयतीति तदुपलक्षणम् । - ***************************************************************** 1 न तु लक्षणं = अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितं, सकललक्ष्यवृत्तिः सद् लक्ष्येतरावृत्तिः इति यावत् । लक्षणं हि सर्वेषु लक्ष्येषु व्याप्तं भवति, अतोऽव्याप्तिदोषरहितं भवति । सास्ना सर्वासु गोसु । तथा लक्षणं लक्ष्यभिन्ने कदापि न वर्तत इति अतिव्याप्तिदोषरहितं भवति । यथा सास्ना गोभिन्नेषु न वर्तते । तथा लक्षणं 'लक्ष्यमात्रे न वर्तते' इति न भवति, अतस्तद् असम्भवदोषरहितं भवति । यथा सास्ना 'गोमात्रे न वर्तते' इति न भवति । आवयोः = हे पूर्वपक्ष ! तव मम च समानम् । ननु वयं तु चक्षुर्ग्राह्यशरीरत्वं लक्षणमेव मन्यामहे, न तूपलक्षणम् । ततश्च कथमेतदावयोः समानम् ? इत्यत आह अन्यथा यदि हि चक्षुर्ग्राह्यशरीरत्वं लक्षणं स्यात्तर्हि । अव्याप्तेरिव सूक्ष्मपृथिवीकायिकादीनां चक्षुर्ग्राह्यशरीरत्वाभावात् तत्राव्याप्तिर्यथाऽस्माकं भवति तथैवेति भाव:, तव = पूर्वपक्षस्य, अतिव्याप्तेरपि = न केवलमस्माकमव्याप्ति एव, किन्तु तत्र बादरनिगोदेषु चक्षुर्ग्राह्यशरीरत्वलक्षणं वर्तते इति युष्माकमपि भवत्येवातिव्याप्तिः । ततश्च तद्वारणाय भवताऽपि प्रज्ञापनावृत्तिकृदुक्तं चक्षुर्ग्राह्यशरीरत्वमुपलक्षणमेव मन्तव्यम् । = - = ચન્દ્ર : (પૂર્વપક્ષ : પૃથ્યાદિ વિવિધ વ્યવહારના યોગવાળા હોવું એનો અર્થ જો પ્રાપ્તસૂક્ષ્મનિગોદભિન્નત્વ થતો હોય તો પ્રજ્ઞાપનાવૃત્તિકારે આવું શા માટે લખ્યું કે “તે જીવો લોકોને વિશે દૃષ્ટિમાર્ગમાં આવેલા છતાં પૃથ્યાદિવ્યવહારના વિષય બને છે, માટે तेखो व्यवहारी छे." મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત - ૧૨૧
SR No.022211
Book TitleDharm Pariksha Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages178
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy