SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXXX* ધર્મપરીક્ષા = प्रज्ञापनापाठानुसारात् अभव्या अव्यावहारिका एव = न तु निगोदान्निर्गता अपि ते व्यावहारिका इत्येवकारार्थः । अन्यथा = अभव्यानां व्यावहारिकत्वस्वीकारे असंख्येयेत्यादि । तेषां = अभव्यानां सिद्धिगमनस्य व्यवहारराशिस्थितिकालसम्पूर्ती अवश्यं व्यवहारराशित्यागस्यावश्यकत्वेन मोक्षप्राप्तेः 'प्रसङ्गात्' इत्यनेन सहास्यान्वयः कर्त्तव्यः । यदि च ‘अभव्यानां मोक्षप्राप्तिर्न स्वीकर्तुं योग्याः' इत्युच्यते तर्हि अव्यवहारित्वभवनस्य : वा = व्यवहारराशिस्थितिकालसम्पूर्ती तेषामव्यवहारराशिप्रवेशस्य प्रसङ्गात् । = प्रज्ञापनावृत्तिबलाद् व्यवहारिणमुत्कृष्टः कालोऽसंख्येयपुद्गलपरावर्त्तप्रमाणो ज्ञायते । ततश्च यदि अभव्या व्यवहारिणो भवेयुः, तर्हि स्वोत्कृष्टकालानन्तरं ते सिद्धिमाप्नुयुः, अव्यवहारराशि वा प्रविशेयुः । न तेषां तृतीयः पन्थाः, यदि च असंख्येयपुद्गलपरावर्त्तकालानन्तरमपि ते व्यवहारिण एव मन्येरन्, तर्हि व्यवहारराशेरुत्कृष्टः कालोऽसंख्येयपुद्गलपरावर्त्तकालादधिकः स्यात् । तथा च प्रज्ञापनादिमूलपाठविरोधः स्पष्टः, तत्र वनस्पतीनां असंख्येयपुद्गलपरावर्त्तकालप्रमाणायाः कायस्थितेर्व्यवहारराशिगताञ्जीवानाश्रित्येवोक्तत्वादिति पूर्वपक्षगूढाभिप्रायः । ચન્દ્ર૦ : (પ્રજ્ઞાપનાના પાઠને કહીને હવે ધર્મપરીક્ષાગ્રન્થ સંબંધી પૂર્વપક્ષ નિષ્કર્ષ બતાવે છે કે) પ્રજ્ઞાપનાના પાઠને અનુસારે અભવ્યો અવ્યવહા૨ી જ મનાય, વ્યવહારી નહિ. જો વ્યવહારી માનીએ તો વ્યવહા૨ીઓનો ઉત્કૃષ્ટ કાળ અસંખ્યપુદ્ગલપરાવર્ત જ છે. એટલે એટલા કાળનું ઉલ્લંઘન થાય ત્યારે તે અભવ્યોને કાં તો સિદ્ધિની પ્રાપ્તિ માનવી પડે, અથવા તો તેઓ પાછા અવ્યવહારી બની જાય એમ માનવું પડે. કેમકે જો આટલા કાળ બાદ પણ તેઓ વ્યવહારી જ રહે તો વ્યવહારીનો જે કાળ બતાવેલો છે એ ખોટો પડે. આ અભવ્યો જ એના કરતા વધુ કાળ વ્યવહારી તરીકે રહેનારા બની ગયા.) चन्द्र० : इदमत्र चिन्तनीयम् । प्रज्ञापनायां व्यवहारराशेरुत्कृष्टा स्थितिः असंख्यपुद्गलपरावर्त्तकालप्रमाणा नैवोक्ता, किन्तु वनस्पतीनामुक्ता । "वनस्पतीनां तादृशस्थितिसत्त्वेऽनादित्वं न घटेत, वनस्पतीनां निर्लेपनं स्यात्" इत्येवमाद्यापत्तिदर्शनात् तत्र मलयगिरिपूज्यैः अव्यवहारव्यवहारनामकं राशिद्वयं प्रतिपादितम् । ततश्च तेषामयमाशयो ज्ञायते यदुत अव्यवहारराशिः अनादिनिगोदरूपा इति असंख्येयपुद्गलपरावर्त्तप्रमाणा स्थितिस्तस्य न घटते, किन्तु यो व्यवहारराशिवनस्पतिः, तस्यैवेयं स्थितिर्मन्तव्या । अत्र हि मलयगिरिपूज्यैर्व्यवहारराशिमात्रस्यैतावती स्थितिर्न अभिप्रेता, किन्तु व्यवहारराशिवनस्पतीनामेतावती स्थितिरभिप्रेता । यतः प्रज्ञापनासूत्रे वनस्पतीनामेव सा स्थितिः મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત * ૯૩
SR No.022211
Book TitleDharm Pariksha Part 02
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages178
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy