SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ **************************** ધર્મપરીક્ષા "स्त्रीमुक्तिर्न भवति, साधुना वस्त्रं न धारणीयम्" इत्यादिरूपं तीर्थोच्छेदाभिप्रायेणैव तपागच्छात्मकस्य तदभिमतसत्तत्त्वरूपस्य वा तीर्थस्य य उच्छेदस्तदभिप्रायेणैव भवतीति भवतः पूर्वपक्षस्य तपागच्छान्तर्वर्तिन उत्सूत्रप्ररूपकस्य मतम् । तदा उत्सूत्राचरणप्ररूपणप्रवणानां = सूत्रविरुद्धाचारप्ररूपणासक्तचेतसां व्यवहारतो मार्गपतितानां मिथ्यादृष्टिगुणस्थानवर्तिनामपि "तपागच्छीयः साधुः" इति नामधारिणां, अत एव नाममात्रतस्तपागच्छात्मकमार्गस्थितानां यथाच्छन्दादीनां उत्सूत्रभाषकादीनां उत्सूत्र भाषणमपि सूत्रोच्छेदाभिप्रायेणैव आगमोक्तपदार्थखण्डनाध्यवसायेनैव स्यात् । = = = = ननु दिगम्बरादीनां स्त्रीमुक्तिनिषेधादिरूपमुत्सूत्र भाषणं तपागच्छाभिमततत्त्वरूप तीर्थोच्छेदकारणमस्ति, ततश्च यथा दण्डादिरूपाणि घटकारणानि गृह्णन् घटोत्पादाभिप्रायवान् अनुमीयते, तथैव तीर्थोच्छेदकारणं विवक्षितमुत्सूत्र भाषणमाश्रयन् दिगम्बरादिः तीर्थोच्छेदाभिप्रायवान् अनुमीयते एव । ततश्च तस्योत्सूत्रभाषणं तीर्थोच्छेदाभिप्रायेणैवेति वक्तुं युक्तम् । किन्तु तपागच्छीयस्योत्सूत्रप्ररूपकस्य तीर्थोच्छेदाभिप्रायः = सूत्रोच्छेदाभिप्राय: = मार्गोच्छेदाभिप्रायः कथं वक्तुं शक्यते ? तं विनैव तस्योत्सूत्रप्ररूपणं कथं न सम्भवेद् ? इत्याशङ्कायामाहविरूद्धमार्गाश्रयणस्येवेत्यादि । = विरूद्धमार्गाश्रयणस्येव तपागच्छभिन्नदिगम्बरादिमतस्वीकारस्येव सूत्रविरूद्धाश्रयणस्यापि = तपागच्छान्तर्वर्तिनोऽपि साधोः यजिनाविरुद्धपदार्थाभ्युपगमः, तस्यापि मार्गोच्छेदकारणस्य = मार्गोच्छेदकारणत्वस्येति भावः अविशेषात् = समानत्वादिति तावत् अक्षरार्थः । = भावार्थस्त्वयम् - यथा दिगम्बरमताश्रयणं तपागच्छात्मकस्य तपागच्छाभिमततत्त्वरूपस्य वा मार्गस्य उच्छेदस्य कारणम्, अत एव दिगम्बरमताश्रयणवान् मार्गोच्छेदाभिप्रायवान् गण्यते । न हि कारणव्यापृतः कार्यार्थी न भवति इति । तथैव तपागच्छीयसाधोरपि सूत्रविरूद्धप्ररूपणं सूत्रात्मकस्य मार्गस्योच्छेदस्य कारणमेव । ततश्च सूत्रविरूद्धप्ररूपणात्मकं कारणं स्वीकुर्वाणो मुनिः तपागच्छीयोऽपि सन् सूत्रात्मकमार्गोच्छेदाभिप्रायवाननुमीयत एव । एवं च यथा दिगम्बरमताश्रयी उन्मार्गगामी, तथैव उत्सूत्रप्ररूपकस्तपागच्छीयोऽपि उन्मार्गगाम्येव । इदमेवाह । तथा च द्वयोरपि दिगम्बरादिमताश्रयिण उत्सूत्रप्ररूपकतपागच्छीयसाधोश्चापि उन्मार्गः =तपागच्छात्मकमार्गोच्छेदरूपो जिनागमात्मकमार्गोच्छेदरूपो वा समान एव । तस्मात् "एकस्य नियमेनानन्तसंसारः, अपरस्य तु न" इति एकान्तो न मनोरम इति મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત હૈં ૨૫
SR No.022210
Book TitleDharm Pariksha Part 01
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages154
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy