________________
च" आत्मसाक्षात्कारकव्यापारलक्षणो योगः" इत्येवं सुख-तत्साधने अस्य प्रन्यस्य मुख्यतया प्रतिपाद्यविषयौ वेदितव्यो ।
- सहसा “सर्वे संन्यस्यन्तु” इत्येवमर्थकं तात्पर्य नाशङ्कनीयमनेन प्रन्थेन । ये हि वशीकृतेन्द्रियप्रामाः प्रौढपौरुषा मनस्विनो भवन्ति, त एवार्हन्ति समधिरोढं संन्यास. मार्गम् : तदन्ये तु संसारवासे (गृहवासे ) वसन्तोऽपि शक्नुवन्त्येव यथायोगं कल्याणमार्गमभ्यसितुम् । एवं चेदमेवैदम्पर्यमनेन ग्रन्थेन विदांकुर्वन्तु- कस्याञ्चिदपि दशायां (गृहवासदशायामपि- व्यवहारकर्मकरणेऽपि ) न युज्यते अध्यात्ममागों विस्मत्तम् । कस्यामप्यवस्थायां सर्वोऽपि स्वयोग्यतामनतिक्रम्य आत्माभिमुखव्यापारेऽ वश्यं यतेत, इत्येवमर्थकमुपदेशरहस्यमयं ग्रन्थः प्रकटीकरोति । ___ अनेनातिसक्षिप्तेन श्लोकात्मकेन ग्रन्थेन यथेष्टरीत्या वाचकानां बोधपूर्तिमसम्भावितवान् गूर्जरभाषा- विवरणमपि निर्माय प्रन्थेन सह संयोजयास्मि स्म ।
अस्य प्रन्थस्य ' अंग्रेजी' भाषायामनुवाद-विवरणाभ्यां समलङ्काराय 'भावनगर'वास्तव्यैः स्वप्रान्तसुप्रतिष्ठितगारवर्विद्वद्विख्यातर्भवप्रपञ्चनिर्विण्णचेतोभिर्मुमुक्षु. मनोभिर्विद्वद्वरैः " श्रीयुत मोतीचंद झवेरचंद म्हेता फर्स्ट आसिस्टन्ट मास्तर हाइस्कूल भावनगर-महाशयः” प्रचुरसमयभोगेन प्रतिकूलसंयोगान् सहित्वाऽपि निसर्गस्निग्धहृदयपूर्वकं यत् प्रयस्यते स्म, तत्र उद्गारान् प्रकटीकर्तुं प्रमादे नुभवनिलीनस्य मम मनसः क इव सम्भवेद् अवकाशः,अन्यत्र कुशलाशीर्वादात्!!
तदेवमेष लघीयान् यत्नः पवित्राऽऽशयजनितत्वेन सफलीबभूवानपि परप्रबोधकतया सफलीस्तात् , इति
आशास्ते
प्रन्थकर्ता।