SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ( ३७ ) सर्व: प्रपञ्चः प्रतिपादितोऽयं मनोविशोधाय स वेदितव्यः । कर्मक्षयप्रत्यलमेकमुक्तं ध्यानं तदन्तः परिशुद्धिमूलम् ॥ ११ ॥ प्रदीपिका योगपथप्रकाशे योगाङ्कुर प्रोद्भवकाश्यपी च । मनोविशुद्धिः प्रथमं विधेया प्रयासवैयर्थ्यममूं विना तु ॥ १२ ॥ मनोविशुद्धयै समताऽवलम्ब्या निमज्जतां साम्यसरोवरे यत् । रागादिकम्लानिपरिक्षयः : स्याद् अमन्द आनन्द उपेयते च ॥ १३ ॥ आकृष्य चेतः समता क्षणं चेद्र निषेव्यते तर्हि तदुद्भवं यत् । अन्तः सुखं संप्रसरीसरीति कः पारयेत् तद् वदितुं यथावत् ? ॥१४॥ साम्यानं पूरितमस्ति यस्याऽन्तर्लोचने मोहतमः प्रणाशात् । स्वस्मिन् स्वरूपं परमेश्वरस्य पश्यत्यसौ निष्ठितसाध्य बिन्दुः ||१५| दूरे दिवः शर्म शिवं दवीयो यच्छं मनःसन्निहितं समत्वात् । शक्यं समास्वादयितुं स्फुटं तद्, इहैव मोक्षः समतारतस्य ||१६|| सुधाधनो वर्षति साम्यरूपो मनोभुवां यस्य मुनीश्वरस्यं । संसारदावानलतीव्रतापोऽनुभूतिमास्कन्दति किं तदीयाम् १ ||१७|| अन्यैः पदार्थैः सकलैर्विभिन्नमात्मा यदाऽऽत्मानमवैति सम्यक् । तदा समत्वं लभते प्रसूतिमशक्यलाभं विबुधेश्वराणाम् || १८ || संरक्षिते मोहमृगेश्वरेण भयङ्करे दोषसमूहसत्रे । समत्वरूपज्वलनार्चिषा ये दाहं ददुस्ते परिनिष्ठितार्थाः ||१९|| क्रूरा अपि प्राणभृतः परस्परं यद्दर्शनाच्छान्तिमवाप्नुवन्ति यत् । नान्यस्य कस्यापि समर्थताऽस्त्यसौ समत्वमेकं खलु तत्र जृम्भते ॥ २० ॥ अनित्यभावादिकभावनाः स्मृता महर्षिभिर्द्वादश, तास्वविश्रमम् विभाव्यमानासु ममत्वलक्षणाऽन्धकारनाशे समताप्रभा स्फुरेत् ॥ २१ यदिन्द्रियार्थैरनुभूयते शं यदेतदङ्गं विषयाः समग्राः । यद् दृश्यते चर्मदृशा तदेतद् अनित्यमेवास्ति समग्रमत्रः ||२२||
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy