________________
(२५) प्रीतिस्त्वविच्छिन्नतयाऽत्र योग-कथासु भक्तिमहती च सत्सु । भयं न तीव्र भवतस्तथाऽनाभोगेऽपि नात्यर्थमयोग्यकर्म ॥९१॥ प्रासः स्वकीये विकले च कृत्येऽधिकेऽधिकस्थे च विबोद्धमिच्छा। दुःखप्रहाणाय सतां प्रयत्नं नानाविधं वीक्ष्य कथन्त्वबुद्धिः ॥१२॥ नास्माकमुच्चैःप्रतिभाप्रकाशो ग्रन्थाः पुनः सन्ति सुविस्तरेण । शिष्टाः प्रमाणं तदिहेत्यमुष्यां दृष्टौ सदा तिष्ठति मन्यमानः ॥९३।। यत्राऽऽसनं नाम सुख-स्थिरं स्याद् दृष्टिबला सा विदिता तृतीया। दृढं च काष्ठा मिकणप्रकाशसमं भवेद् दर्शनमत्र दृष्टौ ॥ ९४ ॥ महांश्च तत्त्वश्रवणाभिलाषः क्षेपो न योगस्य पथि प्रयाणे । असाधुतृष्णा-त्वरयोरभावात् स्थिरं सुखं चाऽऽसनमाविरस्ति॥१५॥ अतोऽन्तरायाः शममाप्नुवन्ति द्वन्द्वाभिघातो न च सम्भविष्णुः । अपायदुरीभवनेन कृत्यं भवेत् समस्तं प्रणिधानपूर्वम् ॥ ९६ ॥ यूनः सकान्तस्य विदग्धबुद्धयों दिव्यगेयश्रवणेऽभिलाषः । तत्कोटिमारोहति तत्वविद्यासुधासमास्वाद इहाभिलाषः ॥१७॥ असत्यमुष्मिन् श्रुतमप्यपार्थमिवोषरायां भुवि बीजवापः । सतित्वमुष्मिन्नसति श्रुतेऽपि निःसंशयं कर्मपरिक्षयः स्यात् ॥९८॥ तूर्याऽन्विता प्राणयमेन योगोत्थानेन मुक्ता दृगवादि दीप्रा । अस्यां च तत्त्वश्रवणप्रवृत्तिर्न सूक्ष्मबोधः पुनरत्र भाति ॥ ९९ ॥ यः श्वास-प्रश्वासगतिप्ररोधः स योगिभिः प्राणयमो बभाषे। स रेचकः पूरक-कुम्भकौ च श्वासो बहिर्वृत्तिरिहाऽऽदिमः स्यात्
॥ १०० ॥ प्रपूरणं यत् पुनरस्य पूरकः स्थिरत्वसम्पादनमेव कुम्भकः । नैकस्वभावाः खलु योगसाधका गच्छन्ति केचित् तत ईदृशा पथा
॥१०१ ॥ (युग्मम् ) स्याद् भावतः प्राणयमस्तु बाघभावस्य रेकादू अथ पूरणेन । अन्तःस्वभावस्य, यथार्थतत्वधीकुम्भनादू, उत्तममेतराम ॥१०२॥