SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ गृहस्थभावो मुनिता च भिन्ने परिग्रही तन्न मुनिर्गृहीव। . : परिग्रहाऽऽसक्तमुनेर्मुनित्वे भवेन्न कस्माद् गृहिणां मुनित्वम् ? ॥१९॥ निन्द्यो गृही स्यादपरिग्रहत्वे निन्द्यो मुनिः स्यात् सपरिग्रहत्वे ।। द्रव्योपभोगे मदनप्रसक्तेरपि प्रचारस्य न दुर्वचत्वम् ॥६०॥ द्रव्यग्रहे लाभदृशापि मूलक्षतिं विनाऽन्यन्न वदन्ति सन्तः। संसारदुर्वातनिरोधहेतुः सुनिश्चितं साध्वपरिग्रहत्वम् ॥ ६१॥ . गृहस्थवर्गस्त्वपरिग्रहत्वमध्यासितुं न प्रभविष्णुरस्ति । अतः स कुर्वीत परिग्रहस्य प्रमाणमाशाप्रसरावरोधि ॥ ६२॥. परिग्रहस्याऽस्खलितप्रचारे तृष्णा प्रचारं लभते नितान्तम् । सतो जनः पोत इवाम्बुराशौ भवे निमजेदिति चिन्तनीयम् ॥६॥ परिग्रहस्यातिवशीभवन्तं मुष्णन्ति चौरा विषयाभिधानाः। । दहत्यनगो दहनः कषायव्याधा निरुन्धन्ति पुनः समन्तात् ॥६॥ पापस्य वल्लीमसुखस्य खानि दोषावलीमातरमाहुराशाम् । आशोर्मयस्तत्र चरन्ति वेगाद न यत्र भासः शशिनो रवेश्च ॥६५॥ आक्रान्त विश्वत्रितयोऽपि लोभपयोनिधिस्तैः प्रसरन् निरुद्धः । यमोंऽशतोऽप्येष समाश्रितो यैरेवंविधाः स्युर्गृहिणोऽपि धन्याः ६६।। आरम्भभारा भववृक्षमूलं परिग्रहः कारणमस्त्यमीषाम् । तस्मादवश्यं नियतप्रमाणं परिग्रहं संविदधीत गेही ॥ ६७ ॥ एतानहिंसादियमान स्वशक्तेरहन्ति सम्पालयितुं समग्राः। धर्मोऽस्त्ययं सार्वजनीन एव स्वाभाविकी जीवननीतिरेषा ॥६८॥ उक्ता अहिंसादियमा अमी दिक्कालाधवच्छिन्नतया विमुक्ताः । महाव्रतं सन्ति च सार्वभौमा वितर्कबाधे प्रतिपक्षचिन्ता ॥६९॥ वितर्कबाधे प्रतिपक्षचिन्तनाद् योगस्य सौकर्यमवेक्ष्य योगिनः । यमेषु योगस्य बभाषिरेऽङ्गतां विघ्नापनेता प्रथमं हि युज्यते ॥७०॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy