SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (२०) यस्मिन् प्रदीपे शलभन्ति दोषा यस्मिन् सुधांशौ परितापशान्तिः। यस्मिन् समुद्रे गुणरत्नभूतिस्तद् ब्रह्म को न स्पृहयेत सचेताः॥३५॥ यस्मिन् दिनेशे परितप्यमान उपद्रवध्वान्त उपैति नाशम् । इष्टार्थसम्पादनकल्पवृक्षेऽस्मिन् ब्रह्मचर्ये सुधियो यतेरन् ॥३६॥ सिंहासने चोपविशन् सुरेन्द्रः प्रवन्दते यान् शुचिभक्तिनम्रः । ते ब्रह्मचर्यव्रतबद्धचित्ता मनस्विना मर्त्यभुवां जयन्ति ॥ ३७ ॥ फलन्ति मन्त्रा वहते च कीतिरध्यासते सन्निधिमप्यमाः । यस्मिन् सति प्रस्फुरितप्रभावे तद् ब्रह्मचर्य सुविचारलभ्यम् ॥३८॥ अस्थनां प्रभूतं बलमर्पयन्तं रक्तप्रवाहं प्रविकासयन्तम् । मुखे प्रतापारुणतां दधानं न कः सुधीब्रह्मयमं सुरक्षेत् ! ॥३९॥ न तं शरत्पर्व हिमांशुरोचिः प्रह्लादमुत्पादयितुं क्षमेत । न त रसं दिव्यफलानि चापि ह्लादं रसं ब्रह्म यमातनोति ॥४०॥ यत् प्राणभूतं मुनिधर्मलक्षम्या हेतुः परब्रह्मणि यच्च, यस्मात् । निर्याति मेधा तटिनीव शैलात् तत् पालयन् ब्रह्म न पूज्यते कैः ? ॥ १ ॥ इह प्रतिष्ठा च परत्र च स्वर्यस्माददो ब्रह्म विहाय, मार्गम् । आपातमात्रे रमणीयमन्ते किम्पाकवद दारुणमाश्रयेन ॥ ४२ ॥ देहे तपस्येव न तापहेतुहेतुर्न वा भक्तिरिव श्रमस्य । स्वभावसिद्धो मनसः पवित्रीभावे स्थितो ब्रह्मयमश्चकास्ति ॥४॥ परिक्षमन्ते गृहमे धिनस्तु न सर्वथाब्रह्ममहाव्रताय । तद् देशतो ब्रह्मणि ते यतेरन् स्वदारतुष्टाः परदारवर्जाः॥४४॥ त्रिय स्वसारं जननी सुतां वा स्वां कामवृष्टया समवेक्षमाणे । कोधोपतोपप्रभवं विचिन्त्य परस्य ना- न दृशौ क्षिपेत ॥४५॥ नहि स्वदारा अपि सेवितव्या आसक्तितः, किं पुनरन्यनाय्य। नोत्तयते क्षेप्तुमितस्ततः स्वं ही! यत्यते पातयितुं तु रेतः॥४६॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy