SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ (१७) तृतीय-प्रकरणम्। . . अष्टाङ्गयोगः। यत्राऽस्ति दुःखाननुविद्धमेवानन्तं सुखं शाश्वतमेष मोक्षः।। समग्रकर्मक्षयलक्षणोऽसौ नह्यस्ति मुक्तिः सति कर्मलेशे ॥ १ ॥ स्वर्गापवौँ भवतो विभिन्नौ स्वर्गाद् यतः स्यात् पतनं, न मोक्षात्। स्वर्गे सुखश्रीः पुनरिन्द्रियोत्था ज्ञेया परब्रह्ममयी तु मोक्षे ॥२॥ सकर्मकाकर्मकतो द्विधाऽऽत्माऽऽदिमस्तु संसारितया प्रसिद्धः। अकर्मको निर्वृत-मुक्त-सिद्ध-ब्रह्मादिशब्दैरभिधीयते च ॥३॥ मोक्षाऽऽप्तये योगविदः पुराणा योगस्य पन्थानमदीदृशन्नः। अष्टाङ्गभेदः स पुनः प्रसिद्धः प्रदर्यते किश्चन तत्स्वरूपम् ॥४॥ यमनियमाऽऽसनप्राणायामाः प्रत्याहृतिश्च धारणया। सार्धं ध्यानसमाधी इत्यष्टाङ्गानि योगस्य ॥५॥ तत्राहिंसासत्याऽस्तेयब्रह्मापरिग्रहाश्च यमाः। .... शौचं तोषश्च तपः स्वाध्यायः प्रभुविचिन्तनं नियमाः ॥६॥ एकान्ततोऽभिन्नतया शरीर-शरीरिणौ सम्भवतो न युक्तौ । परो भवः कस्य हि जाघटीतु नाशे शरीरस्य शरीरिनाशात् ॥७॥ नाप्येवमेकान्तपृथक्त्वमङ्गाङ्गिनोविचाराध्वनि सञ्चरिष्णु । एवं हि हिंसा नहि सम्भवित्री हते शरीरेऽपि शरीरभाजः॥८॥ मेधाविनस्तत् प्रतियन्ति देहाद् विभिन्नमप्यङ्गभृतं कथञ्चित् । संयोगतोऽभिन्नमतोऽङ्गनाशे या स्याद् व्यथा तां प्रवदन्ति हिंसाम् ९॥ आकीटकादा च सुराधिराजात् सर्वत्र जीवेषु सुखासुखस्य । प्रियाप्रियत्वं परिचिन्त्य धीमान न क्वापि हिंसाऽऽचरणं विध्यात् ॥ १० ॥
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy