________________
अध्यात्मतत्त्वालोकः।
(मूलग्रन्थः।)
अध्यात्मपीवषमनक्षगम्यं पीत्वा कणेहत्य विषं निजध्नुः । अनादिकर्मप्रचयात्मकं ये त्रिधा प्रवन्दे परमात्मनस्तान् ॥१॥
हतं हहा ! शास्त्रविशारदत्वमनर्थहेतुश्च वचःपटुत्वम् । विज्ञानवेत्तृत्वमपार्थकं च नाऽऽस्वादितोऽध्यात्मसुधारसश्चेत् ॥२॥
ज्ञानस्य भक्तस्तपसः क्रियायाः प्रयोजनं खल्विदमेकमेव । चेतःसमाधौ सति कर्मले पविशोधनादात्मगुणप्रकाशः ॥३॥
ध्यानं च मौनं च तपः क्रिया च नाध्यात्ममार्गाभिमुखीभवेञ्चेत् । न तहि कल्याणनिबन्धन स्याद युक्ता हि लक्ष्याभिमुखी प्रवृत्तिः॥४॥
द्वीप पयोधौ फलिनं मरौ च दीपं निशायां शिखिनं हिमे च । कलौ कराले लभते दुराएमध्यात्मतत्व बहुभागधेयः ॥५॥
जरा जराया मरणं च मृत्योः सर्वापदानामपि राजयक्ष्मा । जन्मदुबीजाग्निरनन्तविद्यानिदानमध्यात्ममहोदयश्रीः ॥ ६॥ तेऽपि प्रचण्डा सदनस्य बाणाश्छिद्राकुलं यः क्रियते तपोऽपि । अध्यात्मवर्माऽपिहिते तु चित्ते निःसंशयं कुण्ठिततां भजन्ते ॥७॥ अध्यात्मधाराधरसन्निपाते मनोमरौ पुष्यति योगबीजम् । पुण्याङ्करा निर्भरमुल्लसन्ति सर्वत्र शान्तिः प्रसरीसरीति ॥८॥