________________
aee ઉપસંપદ સામાચારી
केचित्पुनरत्रेत्थमभिदधति यथा → अर्थव्याख्यानात्पूर्वमेव यदा गुरवे वन्दनं दीयते, तदैव ते साधवोऽनुभाषकं वन्दन्ते ← इति ॥ ७१ ॥
अत्र शिष्यः प्रश्नयति
1
नणु जेट्टे वंदणयं इहयं जइ सोऽहिगिच्च पज्जायं । वक्खाणलद्धिविगले तो तम्मि णिरत्थयं णु तयं ॥ ७२ ॥ पज्जाएण वि लहुओ वक्खाणगुणं पडुच्च जइ जेटठो । आसायणा इमस्सवि वंदावंतस्स रायणियं ॥७३॥
ननु " क्षुल्लकाः ज्येष्ठं साधुं वन्देरन्" इति हि जिनवरैरनुज्ञातम् । ज्येष्ठश्च दीक्षापर्यायापेक्षयैव व्यवहीयते । यो दीक्षापर्यायापेक्षया ज्येष्ठो भवति, स वयसा लघुरपि दीक्षापर्यायापेक्षया क्षुल्लकैर्वयोवृद्धैरपि साधुभिः वन्द्यत इति भावः ।
एवञ्चाहं प्रश्नं करोमि व्याख्यानावसरे के कं वन्दन्ते ? किं यो व्याख्यानलब्धिविकलोऽपि दीक्षापर्यायापेक्षया ज्येष्ठो भवति, तं सर्वेऽन्ये साधवो वन्दन्ते ? किं वा व्याख्यानलब्धियुक्तं दीक्षापर्यायापेक्षया क्षुल्लकमपि साधुमन्ये साधवो वन्दन्ते ? इति ।
यदि हि प्रथमः पक्षः, तर्हि तद्द्वन्दनं निरर्थकमेव । यत इदं वन्दनं व्याख्यानार्थमेव क्रियते । स च ज्येष्ठो व्याख्यानं दातुमेवासमर्थ इति तं वन्दमानाः साधवस्तत्पार्श्वोत्किमपि फलं नैव लभन्ते । इत्थञ्च निरर्थकमेव तद्वन्दनम् ।
अथ द्वितीयः पक्षः, तर्हि सोऽपि न शोभनः । यतस्तत्र तु दीक्षापर्यायापेक्षया ज्येष्ठा अपि लब्धिविकलाः साधवो लब्धियुक्तं साधुं वन्दन्ते । ततश्च ज्येष्ठान्वन्दापयतस्तस्य क्षुल्लकसाधोः रत्नाधिकानामाशातनारूपो दोषो भवेत् । तस्माद्” अत्र वन्दनदानं कथं कर्तव्यम् ? " इति मम प्रश्नस्य तात्पर्यम् । यत्र दीक्षापर्यायापेक्षया ज्येष्ठ एव व्याख्याता भवति, तत्र तु नेयमापत्तिः । किन्तु यत्र क्षुल्लको व्याख्याता भवति । तत्रेयमापत्तिरिति बोध्यम् ॥७२-७३॥
आचार्यः सिद्धान्तं प्रकटीकरोति ।
भन्नइ इहयं जेट्ठो वक्खाणगुणं पडुच्च णायव्वो । सोऽवि रायणिओ खलु तेण गुणेणंति णो दोसो ॥७४॥
स हि पर्यायापेक्षया क्षुल्लकोऽपि साधुर्व्याख्यानकरणशक्तिमपेक्ष्य तु परेभ्यः साधुभ्यः सकाशाज्ज्येष्ठ वास्ति । इत्थञ्च तदा सोऽप्यन्यज्येष्ठसाधुभ्यः सकाशाद् व्याख्यानगुणमाश्रित्य रत्नाधिकोऽस्ति । तस्मात्तदा पर्यायापेक्षया ज्येष्ठानपि व्याख्यानगुणापेक्षया क्षुल्लकान्साधून् वन्दापयन् व्याख्याता साधुर्न लेशमपि दोषमाप्नोति । यः खलु स्वयं हीनगुणोऽपि सन्नधिकगुणान्वन्दापयति, स तेषामाशातनाकारी भवति । यः पुनर्व्याख्यानगुणाधिकः सन्व्याख्यानगुणापेक्षया हीनगुणान् वन्दापयति, स तु नाशातनाकारी भवति ।
ननु तथापि क्षुल्लकव्याख्याता परान्वन्दापयितुमयोग्य एव । यतः स ज्ञानगुणापेक्षयाऽधिकोऽस्ति । ज्येष्ठाः पुनश्चारित्रगुणापेक्षयाऽधिकाः सन्ति । इत्थञ्चैकैकगुणापेक्षया ते परस्परं समाना एव, न तु न्यूनाधिकाः । न च समानगुणान्वन्दापयितुं स योग्य इति चेत्
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०२