SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEEEEEE ENTERTAITREEEEEEEEEETTEERem GपसंपE साभायारी संप्रति दशमी चरमा उपसम्पत्सामाचारी प्रारभ्यते । तयहीणकज्जगहणे वयणं उवसंपया उवगमस्स । सा पुण तिविहा नाणे दंसणे चरित्ते य ॥५७॥ यद्ज्ञानादि कार्यं यमाचार्यदिकं विना न सम्पद्यते, तज्ज्ञानादिकं कार्यं तदाचार्याधीनं कथ्यते । यथा दार्शनिकपदार्थपरिपूरितं सूत्रकृताङ्गशास्त्रममुकस्यैवाचार्यस्याधीनं यदि भवति, न चान्ये केऽप्याचार्या तदध्यापन कर्तुं समर्था भवन्ति, तदा सूत्रकृताङ्गाध्ययनं तदाचार्याधीनं कथ्यते । तत्कार्यस्य ग्रहणार्थं तदाचार्यनिश्रां र स्वीकुर्वाण: साधुनिश्रास्वीकारकाले यद्वचनमभिदधाति यथा “भो आचार्याः । अहं युष्मत्समीपे युष्मदधीनं से सूत्रकृताङ्गाध्ययनं कर्तुमीहे, तदर्थञ्च भवच्छरणं स्वीकरोमि । अनुगृहाण मां । मह्यं निश्रां दत्वाऽध्यापयत र यूयम्" इत्यादि । तद्वचनमुपसंपत्सामाचारी कथ्यते । यदि हि कश्चित्साधुर्ज्ञानादिकार्यं विनैव स्वगच्छेऽवसीदन्परगच्छे वा कस्यचिदुपरि रागभावं बिभ्रत्परस्य निश्रां स्वीकुर्यात् तदा तद्वचनमुसंपत्सामाचारी न भवति । तथा ज्ञानादिकार्यार्थमपि निश्रास्वीकारवचनमनुक्त्वैव परस्याचार्यादेनिश्रां स्वीकृर्यात्तदापि सोपसंपत्सामाचारी न भवति । सा चोपसंपत्सामाचारी त्रिविधा भवति – आचारांगादिशास्त्रस्याध्ययनार्थं प्रथमोपसंपत्सामाचारी भवति ।। सम्यग्दर्शनस्य निर्मलतां कुर्वाणानां सम्मतितर्कादिग्रन्थानामध्ययनार्थं द्वितीयोपसंपत्सामाचारी भवति ।। वैयावृत्यकरण-तपःकरणार्थञ्च तृतीयोसंपत्सामाचारी भवति । है अयमत्राशयः - साधवः प्रथमं तावत्स्वगच्छ एव गीतार्थादिसाधूनां पार्वे सर्वमध्ययनं कुर्वन्ति, वैयावृत्यादिकञ्च कुर्वन्ति । किन्तु यदा स्वगच्छे विशिष्टग्रन्थानामभ्यासं कारयितुं समर्थाः साधवो न भवन्ति । र यदा वा विशिष्टग्रन्थाभ्यासं कारयितुं समर्था अपि गीतार्थसाधवस्तथाविधानुभवरहिता भवन्ति । अन्यस्मिन्गच्छे च तत्तद्ग्रन्थानां गूढरहस्यं जानाना अनुभविनः साधवो विद्यन्ते । तदा तादृशविशिष्टग्रन्थानामध्ययनार्थमेते साधवो गुरोरनुज्ञां गृहीत्वा परगच्छे गच्छन्ति । तत्र चार्यादीनां निश्रां गृहीत्वा तिष्ठन्ति, अध्ययनञ्च कुर्वन्ति ।। १ इत्थञ्चोपसंपत्सामाचारीपालनं संभवति । अत्रापि बहु वक्तव्यं, तदपि ग्रन्थविस्तरभयानोच्यते ॥५७॥ अधुना ज्ञानोपसंपदो दर्शनोपसंपदश्च भेदान् दर्शयति । वत्तणसंधणगहणे नाणे सुत्तत्थतदुभयं पप्प । एमेव दंसणंमि वि वत्तणमिहयं थिरीकरणं ॥५८॥ घडणं च संधणा किर तस्स पएसंतरम्मि णटुस्स । गहणं अपुव्वधरणं इहयं चउरो इमे भंगा ॥५९॥ । अत्र दृष्टान्तद्वारैव पदार्थः प्रतिपाद्यते, येन स्पष्टोऽवबोधः स्यात् । एकः साधुरुत्तराध्ययनादीनागमासे न्कंठस्थान् अकरोत् । किन्तु स्वगच्छेऽन्यस्य स्वतुल्याभ्यासं कुर्वाणस्याभावात्तेषामागमानां रात्रौ दिने वा पुनरावर्तनं दुःशक्यं सञ्जातम् । यदि च तस्य दीर्घकालं यावत्पुनरावर्तनं न क्रियेत, तदा तेषां विस्मरणं भवेत्। र पूर्वं कृतः सर्वोऽपि प्रयत्नो निष्फल एव स्यात् । तस्मात्स साधुर्यत्र गच्छे तेषामागमानां पुनरावर्तनं कारयन्साधुर्वर्तते, तत्र गच्छति, निश्राञ्च स्वीकृत्य पुनरावर्तनं करोति । अधीतसूत्रादेः स्थिरीकरणं वर्तनमुच्यते। एवं पूर्वमधीतानामागमानामद्य कस्यचित्साधोविस्मरणं सञ्जातम् । स तु पुनः प्रयत्नं करोति । किन्तु यत्र। 333333335555 महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८२
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy