________________
CUSSSSSSGGEEEEEEEEEEEEEEEEEGammamta
A m EEEEEEEEEEEEEEEEEEEERINEERINEER Eना सामाधारी eer
पालनेऽधिकारी भवति । अन्येषां तथाविधलब्धिविकलानामत्राधिकारो नास्ति। ___नन्वन्येऽपि साधवः आधाकर्मादिदोषयुक्तमशनादिकमानेतुं शक्तिमन्त एव भवन्ति । भक्तिमन्तो हि । श्रावकाः साधुकथनानुसारेण सर्वमप्यशनादिकं प्रगुणीकुर्वन्त्येव । यद्यपि सदोषमशनादिकं जिनवरैः प्रतिषिद्धम्।। तथापि साधूनां भक्तिकरणार्थं छन्दनासामाचारीपालनार्थञ्च दोषदुष्टमप्यशनादिकं गृह्णतां साधूनां न कोऽपि दोषो । भविष्यतीति सर्वेऽपि साधवश्छन्दनासामाचारीपालका भवन्त्येवेति चेत् न, सदोषस्याशनादेर्ग्रहणे जिनाज्ञाभङ्गो भवति, स च महानर्थकारीति कृत्वा साधूनां भक्तिकरणार्थमपि सदोषस्याशनादेरनुज्ञा नास्ति । निर्दोषञ्चाशनादिकं लाभान्तरायक्षयोपशमवद्भिरेव प्रभूतं प्राप्यत इति तेषामेव छन्दनासामाचार्यामधिकारः ।
ये तु साधवोऽन्येषां मुनीनां भक्तिकरणार्थं सदोषमशनादिकं गृह्णन्ति । ते पौरुषध्नीभिक्षाभाजो भवन्ति ।। पापानुबन्धिपापोदयवन्तश्च भवन्ति । तस्मान्नैतद् युक्तम् । ____ तथा योऽष्टमादितपःकारको भवति । तस्य पारणकदिनेऽनेकशो भोजनकरणस्यानुज्ञाऽस्ति । अन्येषाञ्चैकाशनप्रत्याख्यानं भवति । ततश्च स प्रातःकाले गोचर्यां निर्गतः किञ्चिदधिकमप्यशनादिकमानयति । तच्च तस्य वर्धेताऽपि । ततश्च स तपस्वी गुरोरनुज्ञां गृहीत्वाऽन्यसाधुन् प्रत्यवशिष्टस्याशनादेनिमन्त्रणां कर्तुमर्हति।
पारणके ह्यशनादिकस्य प्रमाणं सम्यङ् न ज्ञायत इति कृत्वा स किञ्चिदधिकमप्यानयति ततश्च तस्य: १ छन्दनासामाचारीपालनेऽधिकारो भवति ।
इत्थञ्च ये लाभान्तरायकर्मक्षयोपशमजन्यविशिष्टलब्धिमन्तः साधवः, ये चाष्टमादितप:कारकाः, तेषामेव 2 छन्दनायामधिकारोऽस्ति । नान्येषाम् ।
अत्रेदं बोध्यम् । पूर्वकाले सर्वे एव साधवो गोचरी आनेतुं गच्छन्ति । ग्लानगुर्वादीनाञ्च प्रायोग्यमशनादिकमानयन्ति । किन्तु सम्प्रति स आचारो न दृश्यते । सम्प्रति त्वमुका एव साधवो गोचरीमानयन्ति ।। मण्डलीव्यवस्थापककथनानुसारेण सर्वे साधवो मण्डलीकार्याणि जलानयनादीनि कुर्वन्ति । एवञ्चाधुना "केषांक छन्दनासामाचार्यामधिकारो भवेद् ? इति प्रश्नः । तत्र यो मण्डलीव्यवस्थापको भवति, स सर्वान् साधून्पृच्छति ।। यथा "भवदर्थमद्य किमानेतव्यम् ? इत्यादि । किन्तु सा पृच्छा छन्दना न गण्यते, यतः पूर्वानीतस्यैव भक्तादेश्छन्दना भवति । ततश्च गोचरीमण्डल्यां गुरुणा येषां साधूनामशनादिपरिवेषणस्याधिकारः समर्पितो भवेत्।। त एव साधवो गोचरीमण्डल्यां पूर्वानीतानामशनादीनां परिवेषणकाले छन्दनासामाचारी कुर्वन्ति यथा “किं भवतां। प्रायोग्यम् ? कथयत यूयं । ददाम्यहम्" इत्यादि । एषः तावत्सामान्यतो मया मदभिप्रायो दर्शितः । किन्तु गीतार्था 8 यदत्र वदन्ति, तदेवाधुना प्रमाणीकर्तव्यम् ।
शिष्यः प्रश्नयति – ननु प्राचीनसाधूनामपि स्वोदरपूरणं येन भवेत्, तावन्मात्रस्यैवाशनादेर्ग्रहणस्या । र नुज्ञाऽऽसीत्, न तु तेषामधिकानयनेऽनुज्ञा दत्ताऽऽसीत् । यतोऽधिकानयने यदि केऽपि साधवस्तदधिकाशनादिकं ।
न गृह्णीयुस्तदा तस्य परिष्ठापने जीवविराधनादि स्यात् । न हि निष्कारणं प्रतिदिनमशनादेः परिष्ठापनमुचितम् ।। किन्तु कदाचिदेव । प्रतिदिनमधिकानयने च प्रतिदिनमेव परिष्ठापनं कर्तव्यं स्यादिति न युक्तमेवाधिकानयनम्।। ततश्च ते तपस्विनो लब्धिधारिणो वा स्वादरपूरणमात्रमेवाशनादिकमानेतुमधिकारवन्तो भवन्ति । एवञ्च तेषां। समीपेऽधिकस्याशनादेरभावे छन्दनासामाचारी न युक्ता तेषाम् - इति ।
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEG
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १७८ PresumeTTERRIERRORSCIESERVERSITECERESTHESE8S5ERSESEGO RIES