________________
મિચ્છાકાર સામાચારી
← इति । तत्तु सत्यमेव । किन्तु किं भवानरण्यवासिनो गुडरब्बामात्रमिष्टान्न भोजिनः कथां जानासि ? सहि वनवासी जीवनमध्ये केवलं गुडरब्बामात्रस्यैवास्वादमनुभूतवान् । घृतपूर्णादिरसास्वादमजानन्स इत्थमेव मन्यते, यथा "गुडरब्बाभोजने एव मम प्रचुरं सुखं भवति । न तु घृतपूर्णादिभोजने" इति । यतस्तेन कदापि घृतपूर्णं भक्षितमेव नासीत् ।
एवं भवानपि कदापि प्राकृतप्रयोगे विद्यमानानामक्षराणामर्थेषु तीव्रोपयोगं न लब्धवान् । यदि तु तथाविधोपयोगसमन्वितानां शुभो भावोऽत्र गृह्यते, तदा तु स भावः भवत्शुभभावापेक्षयाऽनन्तगुणो भवेत् । तस्मान्निश्चयनयानुसारिण्यां मिथ्याकारसामाचार्यां प्रयत्नं कुरु, येन तव मिथ्याऽभिमानं नश्येत् ।
यथा हि संस्कृतमजानानस्य त्रिषष्ठिशलाकापुरुषादिसंस्कृतग्रन्थपठने तथाविधं सुखं न समुत्पद्यते, किन्तु तस्यैव ग्रन्थस्य भाषान्तरं पठतस्तस्य सुखं समुज्जृम्भते । यदा तु स एव जनः संस्कृतं सम्यक्पठित्वा तदनन्तरं संस्कृतग्रन्थं पठति, तदा तु तस्यानन्तगुणं सुखं समुत्पद्यते इत्यनुभवसिद्धमेतत् । एवमत्रापि प्राकृतप्रयोगस्य गूढार्थमजानानस्य गुर्जरादिप्रयोगेष्वेव शुभो भावो जायते, गूढार्थं ज्ञात्वा तीव्रोपयोगपूर्वकं प्राकृतप्रयोगकाले तु तस्य यः संवेगो जायते स तु प्राक्तनशुभभावादनन्तगुणो भवति ।
नेत्रे निमील्य चिन्तनीयमिदं निश्चयनयमतरहस्यम् ।
तादृशोऽपि प्रयोगोऽपुनःकरणसमन्वितः सन् प्रभूतनिर्जराकारी भवतीत्यपि दृष्टव्यम् ॥१७॥
शिष्यः पुनरपि प्रश्नयति यो जीवः एतादृशोपयोगं विना प्राकृतप्रयोगं करोति, तस्य तु स निष्फल एव, यः पुनरुपयोगयुक्तो भवति, तस्य गुर्जरादिवाक्यप्रयोगोऽपि सम्यगेव, यतः तस्योपयोगो विद्यते स एव च पापजन्यकर्मस्य निर्जरा विदधातीति भवतामाग्रहो निरर्थक एव ← इति । समादधाति गुरुः । दक्खस्सेयपओगे णियमा उल्लसइ तारिसो भावो । अण्णपओगे भयणा तेणं अच्चायरो इह यो ॥१८॥
इह हि जीवा द्विविधा भवन्ति । प्राकृतप्रयोगे विद्यमानानां प्रत्येकाक्षराणामर्थस्य ज्ञातारः, अज्ञातारश्च । तत्र ये प्रथमे जीवाः, तेषां प्राकृतप्रयोगेऽवश्यं शुभो भावः समुल्लसति । गुर्जरादिप्रयोगे च भावोल्लासो भवति न वा भवति । यथा हि नमस्कारमहामन्त्रस्यार्थं जानानस्य नमस्कारपाठोच्चारणे नियमात्शुभो भावो भवति । किन्तु शक्रस्तवादिपाठे तु नमस्कारमहामन्त्रसंबंधी शुभो भावो भवति, न वा भवति । एवमत्रापि बोध्यम् । इत्थञ्च प्रथमविधानां जीवानां तावत्प्राकृतप्रयोग एव श्रेयानिति फलितम् ।
ये तु प्राकृतप्रयोगस्य गूढार्थमजानानाः, ते तु मिथ्याकारसामाचारीपालनेऽयोग्या एव । प्राकृतादिप्रयोगमात्रं जानानास्तेषां गूढार्थमजानाना मिथ्याकारसामाचारीपालनस्याधिकारिणो न भवन्तीति तात्पर्यम् । ततश्च तेषां चिन्तैवात्र न कर्तव्या । चारित्रग्रहणेऽयोग्यानां नपुंसकादीनां चिन्ता भवद्भिः क्रियते, यदुत "नपुसंकेन कुत्र दीक्षा ग्राह्या ? कस्य समीपे कस्मिन्दिने दीक्षा ग्राह्या ? ← इत्यादि । नैव क्रियते । तथाऽत्रापि ‘“मिथ्याकारसामाचारीपाल - नेऽयोग्यानामज्ञानिनां कः प्रयोगः सम्यक्फलदायको भविष्यति ?" इति चिन्तयापि न किञ्चित्प्रयोजनम् ।
एष तावन्निश्चयनयो विस्तरेण प्रदर्शितः ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०८