SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ * भाषाया निश्चायकत्वम * तदिदमभिप्रेत्योक्तं भगवता श्यामाचार्येण- ""से नूणं भंते! मन्नामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मन्नामीति ओहारिणी भासा, अह चिंतेमीति ओहारिणी भासा, तह मन्नामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासा? हंता गोयमा! निश्चायकतया तं प्रदर्शयति 'ने' त्यादिना। आप्तोपदेशादिजन्यव्यवसायात्मकशाब्दबोधादौ संशयत्वाभावनिश्चयत्वयोः 'न सन्देह्मि किन्तु निश्चिनोमी'त्याद्यनुव्यवसायेन सिद्धेरप्रत्यूहाच्छब्दादौ प्रमाणत्वसिद्धिरित्याशयः । आदिशब्देन "मया निश्चितोऽयं न तु सन्दिग्धः", 'निश्चयवानहं न संशयवानि'त्यनयोर्ग्रहः । अन्यत्र = न्यायालोकादौ विस्तरः। आगमसंवादं दर्शयति- 'तदिदमि'त्यादिना। ननु आगमस्याऽभ्यर्हितत्वेन प्रथमं तदुपादानं कर्तव्यमिति चेत्? न, प्रतिवादिनो नास्तिकत्वेन तं प्रत्यवधारणानुव्यवसाययोः प्रथमं ग्रहणमुचितमतो न दोषः । ननु तर्हि पश्चादपि तदुपादानं न कर्तव्यमिति चेत्? न आगमवादिनं प्रति तस्य सार्थकत्वात् । ननु ताधिकं नाम निग्रहस्थानमिति चेत्? मैवं, तस्य वादे दोषत्वात् ग्रन्थादौ तस्य न दोषत्वम् । वस्तुतस्तु प्रतिपत्तिदाय-संवादसिद्धिप्रयोजनसद्भावात्तस्य वादेऽपि दोषत्वं नास्त्येवेत्यधिकं प्रमाणमीमांसायां द्रष्टव्यमित्यलं प्रसङ्गेन। __ "से नूणं" इति। अत्र मलयगिरिसूरिभिरेवं व्याख्यातं, "से-शब्दोऽथशब्दार्थः स च वाक्योपन्यासे । नूनमुपमानावधारणतर्कप्रश्नहेतुषु, इहाऽवधारणे, भदन्त! इत्यामन्त्रणे मन्ये=अवबुध्ये इति- एवं यदुत अवधारिणी भाषा । अवधार्यते = अवगम्यते अर्थोऽनयेत्यवधारिणी - अवबोधबीजभूतेत्यर्थः । भाष्यते इति भाषा तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहततिः । एष पदार्थः। वाक्यार्थः पुनरयं अथ भदन्त! एवमहं मन्ये यदुताऽवश्यमवधारिणी भाषेति। न चैतत् सकृत् अनालोच्यैव मन्ये किन्तु चिन्तयामि = युक्तिद्वारेणाऽपि परिभावयामीति-एवं यदुत अवधारणीयं भाषेति । एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति 'अह मण्णामी इह ओहारिणी भासा इति । 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु' इह प्रश्ने काक्वा चास्य सूत्रस्य पाठस्ततोऽयमर्थः । अथ भगवन्नेवमहं मन्ये = एवमहं मननं कुर्यां यथा अवधारिणी भाषेति। द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्नमाह- 'अह चिंतेमी ओहारिणी भासा इति। अथ भगवन्नेवमहं चिन्तयामी? एवमहं चिन्तनं कुर्या? यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः। सम्प्रति पृच्छासमयात् यथा पूर्वं मननं चिन्तनं वा कृतवानिदानीमपि पृच्छासमये तथैव मननं चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन संवादयितुकामः पृच्छति- "तह मन्नामी इति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा" इति। "तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्नेषु" इह निर्देशे काक्वा चाऽस्यापि पाठः । ततः प्रश्नार्थत्वावगतिः। भगवन! यथा पूर्वं मतवानिदानीमप्यहं तथा मन्ये इति-एवं यदुत अवधारिणी भाषेति, रुचिवाले जीवों को प्रकरणकार सूचना करते हैं। इस तरह वैशेषिक की भाँति नास्तिक की धोती भी ढीली हो गई और वह नौदो-ग्यारह हो गया। शंका :- हम तो आगम को प्रमाण मानते हैं। शास्त्रप्रमाण से जब तक यह सिद्ध न हो कि- "शब्द से जो बोध होता है वह निश्चयात्मक है-" तब तक हम तर्क से आपकी बात माननेवाले नहीं हैं। * आगमप्रमाण से भी भाषा में निश्चयात्मकत्व की सिद्धि* समाधान :- जी हाँ, इस विषय में पूर्वधर महर्षि श्यामाचार्य, (जिन्होंने प्रज्ञापना नाम के गंभीर शास्त्र की रचना की है,) का वचन साक्षी है। यह रहा वह प्रज्ञापना का वचन - गौतमस्वामी वीर प्रभु को प्रश्न करते हैं कि "है भगवंत! मैं मानता हूँ कि भाषा अवधारिणी = अर्थनिश्चायक है। मैं तर्क और युक्ति लडा कर सोचता हूँ कि भाषा अर्थ की निश्चायक है। क्या में यह बार बार १ अथ नूनं भदन्त! मन्ये इत्यवधारिणी भाषा, चिन्तयामीत्यवधारिणी भाषा, अथ मन्ये इत्यवधारिणी भाषा, अथ चिन्तयामीत्यवधारिणी भाषा तथा मन्ये इत्यवधारिणी भाषा तथा चिन्तयामीत्यवधारिणी भाषा? हन्त गौतम ! मन्ये इत्यवधारिणी भाषा, चिन्तयामीत्यवधारिणी भाषा, अथ मन्ये इत्यवधारिणी भाषा, अथ चिन्तयामीत्यवधारिणी भाषा, तथा मन्ये इत्यवधारिणी भाषा, तथा चिन्तयामीत्यवधारिणी भाषेति।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy