SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५६ भाषारहस्यप्रकरणे - स्त.४.गा. ७५ ० विध्यर्थे भट्ट-गुरु-मिश्रादिमताविष्करणम् ० यथा च विधेः कृतिसाध्यत्वादिकमेवार्थो न त्वपूर्वादिस्तथा मत्कृतवादरहस्यादवसेयम् । इह तु न प्रतन्यते ग्रन्थान्तरप्रसङ्गात्। प्रसङ्गतो विध्यर्थं प्रति सक्षेपतः परेषामभिप्रायं दर्शयामः । तत्र भट्टाः प्रवृत्तिजनने विधिव्यापारीभूतो विधिसमवेतो शब्दभावनापरनामा अतिरिक्तपदार्थविशेषोऽभिधा, तस्या एव ज्ञानं प्रवर्तकं तत्रैव भावनात्वेन रूपेण विधिशक्तिरित्याहुः । गुरुप्रभाकरमते कार्यताज्ञानस्य प्रवर्तकत्वेन कार्यत्वस्य विधिप्रत्ययार्थत्वम् । परे तु सङ्कल्पज्ञानं प्रवर्तकम्। सङ्कल्प इच्छा तत्रैव विधिशक्तिरित्याहुः । अन्ये तु वैदिकविधिजन्यप्रवृत्तौ अपूर्वज्ञानं प्रवर्तकम्। ततोऽपूर्वस्यैव लिङर्थत्वमिति व्याचक्षते। __ भामतीकारस्तु-यजेत इत्यादिषु शब्द एव कर्तव्यमिष्टसाधनं व्यापारमवगमयंस्तस्येष्टसाधनतां कर्तव्यतां चावगमयति अनन्यलभ्यत्वादुभयोः अनन्यलभ्यस्य च शब्दार्थत्वात्। यत्र तु कर्तव्यताऽन्यत एव लभ्यते यथा 'न हन्यात् न पिबेत्' इत्यादिषु हननपानप्रवृत्त्यो रागतः प्रतिलम्भात् तत्र तदनुवादेन नसमभिव्याहृता लिङ्गादिविभक्तिरन्यतोऽप्राप्तमनयोरनर्थहेतुभावमात्रमवगमयति। प्रत्यक्षे हि तयोरिष्टसाधनभावोऽवगम्यते अन्यथा रागविषयत्वायोगात्। तस्माद्रागादिप्राप्तकर्तव्यताऽनुवादेनानर्थसाधनताप्रज्ञापनपरं 'न हन्यात्' न पिबेदित्यादि वाक्यं न तु कर्तव्यतापरमिति (भा. १/१/४) इत्याह । केचित्त भावनाज्ञानं वैदिके प्रवर्तकम् । भावना च प्रयत्नो न त्विष्टसाधनताज्ञानम् । विधिशक्तिरपि तत्रैवेति वदन्ति। चेष्टा विध्यर्थ इति पामराः । इष्टसाधनत्वमेव विध्यर्थ इत्येके। तदुक्तं विधिविवेके मण्डनमिश्रेण-पुंसां नेष्टाभ्युपायत्वात्, क्रियास्वन्यः प्रवर्तकः। प्रवृत्तिहेतुं धर्मं च प्रवदन्ति प्रवर्त्तनाम् ।। (वि.वि. पृ. १७३) इति। अपरे तु साधनत्वमात्रं विध्यर्थ इति प्रतिपादयन्ति। उदयनाचार्यास्तु प्रवर्तकमिष्टसाधनताज्ञानमेव लिङ्गर्थस्त्वाप्ताभिप्रायो लाघवादित्याहुः। जरन्नैयायिकास्तु बलवदनिष्टाननुबंधीष्टसाधनताविषयकं कृतिसाध्यताज्ञानमेव प्रवर्त्तकम। विध्यर्थोऽपि बलवदनिष्टाननबंधीष्टसाधनत्वे सति कृतिसाध्यत्वमेवेत्याहुः । नव्यास्तु विशेषणवि विनिगमनाविरहेण बलवदनिष्टाननुबन्धित्वम्, इष्टसाधनत्वम्, कृतिसाध्यत्वञ्चेति त्रयमेव विध्यर्थ इति प्राहुः । __ कृतिसाध्यत्वादिकमेवेति। आदिपदेनेष्टसाधनत्वादि ग्राह्यम् । तदुक्तमष्टसहस्रीविवरणे-"कार्यादिरूपनियोगस्येष्टसाधनत्वादेर्वा लिङर्थत्वमित्यत्र नास्माकमेकान्तः शब्दशक्तेर्विचित्रत्वात्, यथाव्युत्पत्ति जायमानस्य विचित्रबोधस्य च लाघवमात्रेणानपवदनीयत्वादिति।" (अ.स.वि.पृ. ५२) एतेन कृतिसाध्यताज्ञानस्यैव प्रवर्तकत्वे मधुविषसम्पृक्तान्नभोजने प्रवृत्त्यापत्तिनिरस्ता बलवदनिष्टाननुबन्धीष्टसाधनत्वविरहात् । एतेन विधिप्रत्ययेनेष्टसाधनत्वाभिधाने कारणे लिङ्गाऽनुशासनात् दर्शपौर्णमासाभ्यामित्यनभिहिताधिकारविहिता तृतीया न स्यादिति वैयाकरणानामेकान्ताभिनिवेश: परास्तः। उपायतामात्राभिधानेऽपि तद्विशेषकरणत्वानभिधानात। वस्तुतस्त्वभिहितान्वयलभ्यं यागेष्टसाधनत्वम, इष्टसाधनत्वसामान्यस्य विध्यर्थत्वात् न तु विशिष्टेष्टसाधनत्वस्येति न दोष इति सूक्ष्ममीक्षणीयम्। न त्वापूर्वादिस्तथेति। अपूर्वादिज्ञाने सत्यपि अप्रवृत्तेः, असत्यपि प्रवृत्तेश्चेति शेषः । अयं भावः अपूर्वादिज्ञाने सत्यपि विना कृतिसाध्यत्वेष्टसाधनत्वादिज्ञानं प्रवृत्तिर्न जायत इत्यन्वयव्यभिचारः। अपूर्वादिज्ञानं विनाऽपि कृतिसाध्यत्वादि अन्य लोग पुण्य धर्म आदि कहते हैं उसका विधिवाक्य से बोध नहीं होता है। अतः कृतिसाध्यता आदि ही विध्यर्थ है, अपूर्व आदि नहीं। कृतिसाध्यत्वादि यहाँ जो आदि शब्द है, उससे इष्टसाधनता आदि का ग्रहण हो सकता है। अन्य कुछ वादी संकल्प आदि को ही विध्यर्थ मानते हैं। इसका निषेध 'अपूर्वादि' में प्रयुक्त आदि पद से यहाँ सूचित किया गया है। विवरणकार कहते हैं कि इस सम्बन्धी विशेषविवेचन मैंने 'वादरहस्य ग्रन्थ में किया है। अतः जिज्ञासु लोग उस ग्रंथ को देख सकते हैं। यहाँ इस विषय का विस्तार करने पर एक अलग स्वतंत्र ग्रन्थ का ही निर्माण हो जायेगा। इतना यह विषय गहन है। १ दुःख की बात है कि उपाध्यायजी महाराज से रचित प्रमारहस्य आदि ग्रन्थों कि तरह यह ग्रन्थ भी वर्तमान काल में उपलब्ध नहीं हो रहा है। यह ग्रन्थ लुप्त-नष्ट हो गया है या किसी अन्य भांडागार में सुरक्षित पड़ा हुआ है? यह खोज का विषय है।
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy