SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ * साङ्कर्यस्य जात्यबाधकत्वविचारः * मेवमपि घटते । तथाहि शुक्लत्वाभाववति अञ्जनस्थश्यामरूपे उत्कटत्वस्योत्कटत्वाभाववति भर्जनकपालस्थवह्निरूपे शुक्लत्वस्य सत्त्वादुभयोश्च पटवृत्तिशुक्लरूपे सत्त्वात्, यद्वा शुक्लत्वाभाववत्युद्भूतगन्धे उद्भूतत्वस्य तच्छून्ये परमाणुरूपे शुक्लत्वस्य सत्त्वादुभयोश्च पटरूपे सत्त्वात् परस्परासमानाधिकरणधर्मयोरेकत्र समावेशस्य साङ्कर्यरूपत्वात् । तदुक्तं किरणावलीरहस्ये मथुरानाथेन "सङ्करः परस्परात्यन्ताभावसमानाधिकरणत्वे सत्येकाधिकरणवृत्तित्वम्। तत्तज्जातिपरस्परात्यन्ताभावसमानाधिकरणत्वे सति तत्तज्जातिमन्निष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वमिति यावत् (कि. र. पृ. १०२ ) १५७ अन्ये इत्यनेनाऽस्वरसः प्रदर्शितः । तद्बीजं चेदम्- उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्याऽप्यदोषत्वादिति । न च स्वसामानाधिकरण्य-स्वाऽभावसामानाधिकरण्योभयसम्बन्धेन यज्जातिविशिष्टजातित्वं यत्र वर्तते तत्र तज्जातिव्यापकत्वनियमः । यथा पृथ्वीत्वविशिष्टे द्रव्यत्वे पृथ्वीत्वव्यापकत्वम् । तादृशोभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसामानाधिकरणाभावप्रतियोगित्वाभाव इति नियमस्य भङ्ग एव सङ्करस्थले बाध इति वाच्यम्, तादृशनियमग्राहकानुकूलतर्काभावात् । किञ्च सङ्कीर्णयोरजातित्वे घटत्वमपि जातिर्न स्यात्, पृथ्वीत्वेन परापरभावानुपपत्तेः । न च पृथ्वीत्वादिव्याप्यं नानैव घटत्वमिति वाच्यम् दण्डत्वस्याऽपि तद्वदेव नानात्वेन घट-दण्डकार्यकारणभावे व्यभिचारात्, यावद्दण्डभिन्नाऽवृत्तिजातित्वेनानुगतीकृत्य तन्निवेशे गौरवात् । एतेन "उद्भूतत्वं तु न जातिः शुक्लत्वादिना साङ्कर्यात् । न च शुक्लत्वादिव्याप्यं नानैवोद्भूतत्वमिति वाच्यम्, उद्भूतरूपत्वादिना चाक्षुषादौ जनकत्वानुपपत्तेः किन्तु शुक्लत्वादिव्याप्यं नानैवानुद्भूतत्वं तदभावकूटश्चोद्भूतत्व" (मुक्ता. पृ. ४३६) मिति मुक्तावलीकारवचनं समालोचयतो मुक्तावलीप्रभाकारस्य नृसिंहशास्त्रिणः - उद्भूतत्वजातीनां नानात्वेऽपि उद्भूतत्वसप्तकान्यतमत्वस्य सर्वोद्भूतत्वजातिषु अनुगतस्य सम्भवेन तेन रूपेण तासां कारणतावच्छेदकत्वे तादृशान्यतमत्वावच्छिन्नवत्त्वेन रूपस्य कारणत्वे बाधकाभावात् इति वचनं प्रत्युक्तम् शुक्लत्वादिनिष्ठव्यापकतानिरूपितव्याप्यताश्रयनानोद्भूतत्वकल्पनापेक्षयाऽनुगतैकोद्भूतत्वजातिकल्पनायां लाघवात्, तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वरूपे अनेकभेदावच्छिन्नप्रतियोगिताकभेदवत्त्वरूपे वा तादृशान्यतमत्वे कारणतावच्छेदकत्वकल्पनायामतिगौरवाच्च । - यत्तु 'शुक्लत्वादिव्याप्यं नानैवानुद्भूतत्वम् तदभावकूटश्चोद्भूतत्व' (मुक्ता. पृ. ४३६) मिति मुक्तावली - कारेणोक्तं तन्मन्दम् उद्भूतत्वस्य भावत्वेन प्रमीयमाणत्वात्, नानानुद्भूतत्वाज्ञानेऽपि उद्भूतत्वज्ञानात्, गौरवाच्च । इदं च श्वश्रूनिर्गच्छोक्तिन्यायेन द्रष्टव्यम् । तथाहि भिक्षामटते माणवकाय भिक्षां प्रत्याचक्षाणां स्नुषां भर्त्सयित्वा श्वश्रूः पुनस्तमाहूय समागते तस्मिन् 'नास्ति भिक्षा निर्गच्छे'ति तथैव प्रत्याचष्टे । तद्वदेव प्रकृते भावनीयम् । एतेन - शुक्लत्वादिना कारणरूपाग्निसंयोगप्रयोज्याभ्यां जातिभ्यां परापरभावानुपपत्त्या रूपवृत्त्युद्भवत्वमनेकं वाच्यं तथा चोद्भूतत्वेन कारणत्वेऽननुगमः । तस्मादनुद्भवत्वं शुक्लत्वादिव्याप्यं नानाजातिस्तदभावकूटस्तु प्रत्यक्षत्वे प्रयोजकः (त. चि. प्र. ख. पृ. ७२५) इति प्रत्यक्षकारणवादे तत्त्वचिन्तामणिकारेण यदुक्तं तन्निरस्तम् प्रतिबन्धकत्वेनानुद्भवत्वं कल्पयित्वा अनुद्भवत्वाभावकूटहेतुत्वकल्पनापेक्षया उद्भूतत्वजातिहेतुत्वे लाघवात्, जातौ परापरनियमे मानाभावात् । वास्तव में उत्कटत्व जातिरूप है या उपाधिरूप है? या अन्य कुछ ही है ? इस विषय का तात्त्विक निरूपण इस प्रकरणकार से रचित वादरहस्य ग्रंथ से ज्ञातव्य है- इस बात की सूचना कर के विवरणकार भावसत्यभाषा के निरूपण को समाप्त करते हैं । । ३२ || भावसत्य भाषा का निरूपण पूर्ण हुआ । अब अवसरप्राप्त योगसत्य भाषा का, जो कि सत्यभाषा का ९वाँ भेद है, ३३वीं गाथा
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy