SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ * वर्धमान-नृसिंह-दिनकराभिप्रायसमालोचनम् * १०५ एतेन वाक्यपदीये यदुक्तं 'न शिष्टैरनुगम्यन्ते पर्याया इव साधवः । ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः।। (वा. प. का. १/श्लो. १४२) तन्निरस्तम् अपभ्रंशतः संस्कृतशब्दानुमानं ततोऽर्थबोध इत्येवमननुभवात्, तमजानतामपि ततोऽर्थप्रतीतेश्च। तद्धेतोरस्त किं तेन? इतिन्यायेन सङकेतज्ञानसहकारिणः तत एव शाब्दबोधाभ्युपगमस्य युक्तत्वात्, शक्तिग्रहबाधकाभावात्, तथैवानुभवाच्च, अन्यथा सङ्केतमहासत्याः प्राणहत्यापापारोपपङ्ककालिमा शिरसि सरसिरुहारोह इवायाता कथं पश्चात्क्रियते वैयाकरणवावदकैः? ___ यत्तु वर्धमानोपाध्यायेन - 'एकशक्तेरन्यत्र तदारोप्यार्थप्रतीत्युपपत्तौ शक्तिरेकत्रैव कल्प्यते, अनन्यलभ्यस्यैव शब्दार्थत्वात्, अन्यथा वृत्त्यन्तरोच्छेदः। सा च संस्कृत एव सर्वदेशे तस्यैकत्वात्। नापभ्रंशेषु तेषां प्रतिदेशमेकत्राऽर्थे भिन्नरूपाणां तावच्छक्तिकल्पने गौरवात् (अन्वी. त. ५/२) इति अन्वीक्षानयतत्त्वबोधे उक्तं तन्न सम्यक् प्रामाणिकगौरवस्याऽदोषत्वात्। कुतः गौरवस्य प्रामाणिकत्वमिति चेत्? संस्कृतशब्दवृत्तितया शक्तिमजानतामपि अपभ्रंशशब्दादर्थप्रतीत्यन्यथानुपपत्तेरुक्तत्वात्, आरोपे आरोग्यज्ञानस्य हेतुत्वात्। न च वृत्त्यन्तरोच्छेदः; अर्थान्तरबोधार्थमाश्रीयमाणे सङ्केतान्तरे एव तद्व्यपदेशेन लक्षणारूपवृत्त्यन्तरानुच्छेदात् । यत्तु "शब्दानामपभ्रंशत्वं व्याकरणाशिक्षितत्वमेव, तच्छिक्षितत्वमेव साधुत्वम् । तथा च गर्गर्यादिशब्दानां व्याकरणाशिक्षितत्वेन प्रयोगाऽप्रसिद्ध्या असच्छब्दव्यावृत्तैव शक्तिर्वाच्या । तादृशशक्तिः 'अस्मात्पदादयमर्थो बोद्धव्य' इत्याकारिकेच्छैव। एवं च 'गर्गर्यादिशब्दादयमर्थो बोद्धव्य' इत्याकारकेच्छासत्त्वेऽपि साधुपदज्ञानजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन निरुक्तेच्छायाः कुत्राऽप्यवर्त्तमानतया न तस्याश्शक्तिरूपत्वं किन्तु गर्गर्यादिशब्दानां साधुपदत्वभ्रान्तिमतः साधुपदज्ञानघटितविशेष्यतासम्बन्धेन निरुक्तेच्छावत्त्वभ्रमरूपशक्तिभ्रमसम्भवात् तस्यैव गर्गर्यादिशब्दाच्छाब्दबोधः नान्यस्येति नवीनमतमेव साधु" (मुक्ता. प्र. पृ. ५४९) इति मुक्तावलीप्रभाकृता नृसिंहशास्त्रिणोक्तं, तन्न चारु, अस्मात् साधुशब्दादयमर्थो बोद्धव्य इत्यपेक्षया अस्माच्छब्दादयमर्थो बोद्धव्य इत्याकारकेच्छाभ्युपगमस्यैव लाघवेन युक्तत्वात्, तत्र साधुपदप्रवेशे मानाभावात् अपभ्रंशेषु शक्त्यभावसिद्धौ साधुपदनिवेशः सिद्ध्यति तन्निवेशे च तत्र शक्त्यभावसिद्धिरित्यन्योन्याश्रयाच्च । एतेन अपभ्रंशात्मकगर्गर्यादिपदे शक्तिभ्रमादेव बोधः (मुक्ता. दि. पृ. ५४९) इति मुक्तावलीदिनकरीयकृतो वचनं प्रत्युक्तम, प्रमात्वापेक्षया भ्रमत्वकल्पनेऽप्रामाणिकगौरवात, अस्खलदवृत्तित्वात, अविसंवादात्, शक्तिग्रहे बाधकाभावाच्च । इत्थमेव सर्वे सर्वार्थवाचकाः सति तात्पर्ये इति प्रवादस्योपपत्तेः तदप्रमाणत्वकल्पने मानाभावात्। __ अस्तु वा साधुपदनिवेशः तथापि न तत्र शक्त्यभावसिद्धिः, संस्कृतशब्दानामिव प्राकृतादिशब्दानामपि सिद्धहेमशब्दानुशासनादिसिद्धत्वात् । वस्तुतस्तु व्याकरणशिक्षितत्वं न साधुत्वम् व्याकरणस्यापि प्रसिद्धलोकप्रयोगमुपजीव्यैव प्रवृत्तेः । नहि पाणिन्यादिभिः प्रसिद्धशब्दव्यवहारमननुरुध्य व्याकरणं रचितम् । अत एव तत्र त्रुटौ जातायां महाभाष्य-वार्त्तिक-वृत्त्यादिरचनानामावश्यकत्वम्, लोकव्यवहारस्योपजीव्यत्वेन बलवत्त्वात् । इत्थमेव 'लोकात्' (सि. श. १/१/३) इति सूत्रमप्युपमगर शास्त्र में भी जहाँ संस्कृत शब्द के साथ संकीर्ण ऐसी असंस्कृत भाषा का प्रयोग हो उसे सत्य मानना नामुनासिब है। इसी सबब शास्त्र में जनपदभाषा को सत्य बताना मुनासिब नहीं है। * शास्त्र की अपभ्रंश-अर्धमागधी आदि भाषा सत्य ही है - स्याद्वादी * स्याद्वादी :- उस उस देश में अपभ्रंश भाषा को सत्य मानने के जो कारण हैं वे कारण तो शास्त्र में प्रदर्शित असंस्कृत भाषा में और संस्कृत शब्दो से संकीर्ण असंस्कृत अपभ्रंश शब्दों में भी विद्यमान ही हैं। फिर एक को सत्य कहना और अन्यको असत्य कहना कैसे न्याय्य होगा? आशय यह है - 'उन देश के लोगों को जनपद सत्यभाषा से अर्थबोध होने में जैसे कोई विवाद नहीं
SR No.022196
Book TitleBhasha Rahasya
Original Sutra AuthorYashovijay Maharaj
Author
PublisherDivyadarshan Trust
Publication Year2003
Total Pages400
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy