________________
परिशिष्ट-१
२२३
(५६) पृ. १३९ पं. ६
(संदेहदोलावली) इत्युक्तो गाथाऽष्टकेनाऽलोचनातपःकरणविधिः, अथ सुसाधूनां पूजनं कार्यमिति यदुक्तं, ततो दुष्करक्रियामात्रदर्शनेन, भ्रमितमतिरुत्सूत्रभाषिणोऽपि सुसाधुतया मन्वानः कश्चित् तेषां पूजनं तत्पार्श्व चापूर्वपाठश्रवणादिकं मा कार्षीत्, इति तत्प्रतिबोधनार्थमाह
उस्सुत्तभासगा जे ते दुक्करकारगा वि सच्छंदा । ताणं न दंसणं पि हु कप्पड़, कप्पे जओ भणिअं ॥१०॥
व्याख्या-'उत्सूत्रभाषकाः' आभिनिवेशिकमिथ्यात्वविषापहृतसुचैतन्यत्वेन सिद्धान्तो-त्तीर्णवादिनः ये अनिर्दिष्टनामानो यतयः, ते दुष्करकारका अपि दुरनुष्ठेयानुष्ठानकारिणोऽपि, न केवलं क्रियाशिथिला इत्यपेरर्थः, 'स्वच्छन्दाः' यथाच्छन्दाः, तीर्थकराज्ञाबहिर्भूतत्वेन स्वेच्छाचारिण इत्यर्थः, यदुक्तम्
"उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो ।। एसो उ यहाछंदो इच्छा छंदो त्ति एगट्ठो त्ति ।।१।।"
तथा च तेषां मलधारणादिका इत्युग्राऽपि सा क्रिया निरर्थका एव, भगवदाज्ञान्यथा-करणस्य महानर्थहेतुत्वात्, यदुक्तम्
अल्पादपि मृषावादाद् रौरवादिषु संभवः । अन्यथा वदतां जैनी वाचं त्वहह का गतिः ? ॥१॥
ततः किमित्यत आह-तेषां दर्शनमपि, अवलोकनमपि, दूरे तद्वन्दनपूजनादयः, हुरवधारणे, नैव कल्पते, श्रुतावज्ञाकारित्वेन महापातकित्वात्, यथोक्तं समर्थयितुं सिद्धान्तसंवादमाह, 'कल्पे' कल्पाध्ययने यतो भणितमिति, कल्पोक्तमेव इदम् न स्वमनीषिकोक्तम् इत्यर्थः ।।१०।।
अथ कल्पभणितमेव आह - जे जिणवयणुत्तिनं वयणं भासंति जे य मन्नति । सद्धिट्ठीणं तहसणं पि संसारखुड्ढिकरं ॥९१।।
व्याख्या-'ये' कदवलेपिनो जिनवचनोत्तीर्णम्, आगमबाह्यं, 'वचनं' वाक्यं 'भाषन्ते' ब्रुवते, ये च, 'चः' समुच्चये तद् बहुमानात् मन्यन्ते, श्रद्दघते, सदृष्टीनां सम्यग्दृष्टीनां, तेषाम् उभयेषामपि दर्शनं, तदर्शनं, तदपि दूरे तद्वन्दनपूजनादयः इत्यपेरर्थः, संसारवृद्धिकरम्, अनन्तसंसारपातहेतुः, अर्हद्वचनान्यथाकरणाऽऽस्थाजनकत्वेन तस्यापि महापापत्वादिति, यद्यपि एवमस्ति, तथापि एवंविधानामपि अमीषां कथमपि दर्शनादौ जाते उपदेशयोग्यत्वं ज्ञात्वा अनकम्पा एव कर्तव्या, यथा आः कथम एते भविष्यन्तीति ? पुनर्निन्दनगर्हणादिकम् अमनोज्ञाहारादिदानं वा कार्य, तयोर्मत्सरविस्फूर्जितत्वेन अशुभदीर्घायुष्कताहेतुत्वात् यदुक्तं भगवत्यां, "कहं णं भंते जीवा असुहदीहाउत्ताए कम्मं पकरिति ? गोयमा ! पाणे अइवाइत्ता मुसंवाइत्ता तहा रूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिसित्ता गरहित्ता अवमंणित्ता, अन्नयरेणं अमणुनेणं अपीइकरणेणं असणपाणखाइमसाइमेणं पडिलाभित्ता, एवं खलु जीवा असुहदीहाउत्ताए कम्मं पकरिंति" इति भावः ॥११॥