SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ २२१ (५१) पृ. १३४ पं. ११ (बृहत्कल्पसूत्र) अथाचीर्णस्यैव लक्षणमाह - असढेण समाइण्णं, जं कत्थइ कारणे असावज्जं । ण णिवारियमण्णेहिं य, बहुमणुमयमेतमाइण्णं ॥४४९९।। 'अशठेन' राग-द्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थेन सता 'समाचीर्णम्' आचरितं यद् भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् 'कुत्रचिद्' द्रव्य-क्षेत्र-कालादौ 'कारणे' पुष्टालम्बने 'असावा' प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकम्, 'न च' नैव निवारितम् 'अन्यैः' तथाविधैरेव तत्कालवर्तिभिगीतार्थः, अपि तु बहु यथा भवति एवमनुमतमेतदाचीर्णमुच्यते ।।४४९९।। (५२) पृ. १३५ पं. २३ (आवश्यकनियुक्ति हरिभद्रसूरि टीका अंतर्गत ध्यानशतक) किमित्येतदेवमित्यत आहअणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा। जियरागदोसमोहा य णण्णहावादिणो तेणं।।४९।। व्याख्या-अनुपकृते-परैरवर्तिते सति परानुग्रहपरायणा-धर्मोपदेशादिना परानुग्रहोद्युक्ता इति समासः, 'यद्' यस्मात् कारणात्, के?- 'जिनाः' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- 'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता-निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथा-वादिनः 'तेने ति तेन कारणेन ते नान्यथावादिन इति, उक्तं च-'रागाद्वा द्वेषाद्वे'त्यादि गाथार्थः।।४९।। (५३) पृ. १३७ पं. १० (उत्तराध्ययनसूत्र अध्ययन-१) साम्प्रतं यथा निरपवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽह - धम्मज्जियं च ववहारं, बुद्धहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥४२॥ (सूत्रम्) व्याख्या-धर्मेण-क्षान्त्यादिरूपेणार्जितम्-उपार्जितं धर्मार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति, 'चः' पूरणे, विविधं विधिवद्वाऽवहरणमनेकार्थत्वादाचरणं व्यवहारस्तं-यतिकर्तव्यतारूपं, 'बुद्धेः' अवगततत्त्वैः आचरितं, 'सदा' सर्वकालं, 'त'मिति सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोनित्याभिसम्बन्थात् सुब्ब्यत्ययाच्च धर्मार्जितो बुद्धराचरितश्च यो व्यवहारस्तमाचरन-कुर्वन्, विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत्, एवं च किमित्याह-'गर्हाम्' अविनीतोऽयमित्येवंविधां निन्दा 'नाभिगच्छति' न प्राप्नोति, यतिरिति गम्यते । यद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनपेतो धर्यो-न धर्मातिक्रान्तः, 'जियं च ववहारं ति प्राकृतत्वाच्चस्य भिन्नक्रमत्वाज्जीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह, अत एव 'बुद्धेः' आचार्यराचरितः सदा-सर्वकालं त्रिकालविषयत्वात् जीतव्यवहारस्य, य एवंविधो व्यवहारस्तं व्यवहारंप्रमादात् स्खलितादौ प्रायश्चित्तदानरूपमाचरन 'गहाँ दण्डरुचिरयं निघृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति,
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy