SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ गुरुतत्त्वसिद्धिः (३९) पृ. ११९ पं. १८ (उपदेशमाला हेयोपादेया टीका) ननु च यो विशिष्टज्ञानो मनाक्क्रियाविकलो यश्चोत्कृष्टक्रियो मनाग्ज्ञानहीनः, अनयोः कतरः श्रेयानित्याशङ्क्याह - नाणाहिओ वरतरं, हीणो वि हु पवयणं पभावितो । न य दुक्करं करितो, सुट्ट वि अप्पागमो पुरिसो ॥४२३॥ 'नाणाहिओ' गाहा, ज्ञानाधिको वरतरमाविष्टलिङ्गत्वात् प्रथानतरः, हीनोऽपि चारित्रापेक्षया, हुरलङ्कारे प्रवचनं सर्वज्ञागमं प्रभावयन् वादव्याख्यानादिभिरुद्भावयन्, न च नैव दुष्करं मासक्षपणादि सुष्ठ्वपि कुर्वनल्पागमः स्तोकश्रुतः पुरुषो वरतरमिति ।।४२३।। (३९) पृ. ११९ पं. १८ (उपदेशमाला टीका) नाणाहिओ वरतरं, हीणो वि हु पवयणं पभावितो । न य दुक्करं करितो, सुट्ट वि अप्पागमो पुरिसो ॥४२३।। व्याख्या-'नाणाहिओ' इति ज्ञानेनाधिकः पूर्णो ज्ञानाधिको वरतरं श्रेष्ठः, हीनोऽपि चारित्रक्रियाहीनोऽपि हु निश्चितं प्रवचनं जिनशासनं प्रभावयन्, एतादृशः क्रियाहीनोऽपि ज्ञानी श्रेष्ठ इत्यर्थः, 'न य' इति न च श्रेष्ठो दुष्करं मासक्षपणादि कुर्वन् सम्यक्प्रकारेण 'अप्पागमो'त्ति अल्पश्रुतः पुरुषः क्रियावानपि ज्ञानहीनो न श्रेष्ठ इत्यर्थः ।।४२३।। (४०) पृ. १२० पं. १६ (भक्तपरिज्ञाप्रकीर्णक) दसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपन्भट्ठो । सिझंति चरणरहिआ दंसणरहिआ न सिझंति ॥६५॥ दंस०, दर्शनभ्रष्टो यः स भ्रष्ट एव, चरणभ्रष्टस्तु न परिभ्रष्टो भवति, दर्शनमनुप्राप्तस्य पर्यटनं नास्ति संसारे।।६५।। (४१) पृ. १२० पं. २५ (आवश्यकनियुक्ति हरिभद्रसूरि टीका) इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत्, असहायदर्शनयुक्तत्वात्, अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च - दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चइस्स । अणुत्तरा सणसंपया तया, विणा चरित्तेणऽहरं गई गया ।।११६०।। व्याख्या-'दशारसिंहस्य' अरिष्ठनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy