SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५१ परिशिष्ट-१ जघन्येन पुलाकस्य श्रुतमाचारवस्तु नवमपूर्वे, बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः, श्रुतापगतः केवली स्नातक इति सम्प्रदायाभिप्रायः । प्रज्ञप्त्यभिप्रायस्तु-'पुलाए णं भंते ! केवतियं सुयं अहिज्जेज्जा ?, गोयमा ! जहण्णेणं णवमस्स पुवस्स तइयं आयारवत्थु, उक्कोसेणं नव पुव्वाइं अहिज्जेज्जा' । ___ इदानीं प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनस्य च पराभियोगाद्बलात्कारेण अन्यतमत् प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके ।। प्रज्ञप्तिस्तु-'पुलाए णं पुच्छा, जाव मूलगुणे पडिसेवेमाणे पंचण्हं आसवाणं अन्नयरं पडिसेवेज्जा, उत्तरगुणे पडिसेवेमाणे दसविहस्स पच्चक्खाणस्स अनयरं पडिसेवेज्जा ।' बकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्च, तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः विशेषयुक्तोपकरणकाङ्क्षायुक्तो नित्यं तत्प्रतिकारसेवी भिक्षुरुपकरणबकुशो भवति, शरीराभिष्वक्तचित्तो विभूषार्थं तत्प्रतिकारसेवी शरीरबकुशः ।। प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते । प्रज्ञप्तिस्तु-'बकुसे णं पुच्छा, जाव णो मूलगुणपडिसेवए होज्जा, उत्तरगुणपडिसेवए हुज्जा, पडिसेवणाकुसीले जहा पुलाए ।' कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थमिदानी, सर्वेषां तीर्थङ्कराणां तीर्थेषु भवन्ति, एके त्वाचार्या मन्यन्ते-पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा । ___लिङ्ग मिति लिङ्गं द्विविध-द्रव्यलिङ्गं भावलिङ्गं च, भावलिङ्गं प्रतीत्य सर्वे निर्ग्रन्थलिगे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः । लेश्याः पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति, बकुशप्रतिसेवनाकुशीलयोः सर्वा अपि, कषायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः, सूक्ष्मसम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति, अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति, प्रज्ञप्तिस्तु-'पुलाए णं पुच्छा, जाव तिसु लेसासु होज्जा, तंजहा-तेउलेसाए पम्हलेसाए सुक्कलेसाए, एवं बउसस्सवि, एवं पडिसेवणाकुसीलस्सवि । कसायकुसीले पुच्छा, जाव छसु लेसासु होज्जत्ति । उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धे, सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौर्धम्मे, प्रज्ञप्तिस्तु 'कसायकुसीले जहा पुलाए, णवरं उक्कोसेण अणुत्तरविमाणेसु, णियंठे णं एवं चेव, जाव वेमाणिएसु उववज्जमाणे अजहण्णमणुक्कोसेणं अणुत्तरविमाणेसु उववज्जति,' स्नातकस्य निर्वाणमिति । ___ स्थानम्-असङ्ख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र सर्वजघन्यानि संयमलब्धिस्थानानि पुलाककषायकुशीलयोः, तौ युगपदसङ्ख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छिद्यते, कषायकुशीलस्ततोऽसङ्ख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि स्थानानि गच्छन्ति, ततो बकुशो व्युच्छिद्यते, ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसङ्ख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकषायस्थानानि गत्वा
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy