SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ પ્રતિમાશતક | શ્લોક : ૧૫ 1 टीडा : ૨૧૧ ननु अल्पबहुत्वविचारे सर्वसंज्ञिभ्यो ज्योतिष्का देवा: संख्येयगुणा उक्ताः तेषु च चंद्रसूर्यादीनां विमानाधिपतीनां सम्यग्दृष्टित्वनियमे सम्यग्दृष्टिभ्यो मिथ्यादृष्टीनां संख्येयगुणत्वे सिद्धे मतिश्रुतज्ञानिभ्यो विभंगज्ञानिनः संख्येयगुणा एव संपद्येरन् उक्ताश्चागमेऽसङ्ख्यातगुणाः तस्मादनन्यगत्या चंद्रसूर्यादयो बहवः सपरिकरा अपि मिथ्यादृष्टित्वेन व्यपदेश्या इति चेत् ? मैवं, गत्यन्तरस्य विद्यमानत्वात् । तथाहि सम्यक्त्वं तावद् द्रव्यभावभेदाद्विविधं तत्र परमार्थापरिज्ञानेऽपि भगवद्वचनतत्त्वरुचिराद्यं परमार्थपरिज्ञानं च द्वितीयम्, तदाह- 'तुहवयणतत्तरुई, परमत्थमयाणओवि दव्वगयं । इयरं पुण तुह समए परमत्थावगमओ होई' त्ति परमार्थपरिज्ञानेन च यदोत्तरोत्तरोत्कर्षमासादयतां स्वविषयश्रद्धायां भावसम्यक्त्वव्यपदेशः क्रियते, तदाऽधस्तनपरिज्ञानजनितश्रद्धायां द्रव्यसम्यक्त्वव्यपदेशो भवति, अत एवाविविक्तषट्कायपरिज्ञानेऽपि चरणकरणतत्त्वपरिज्ञानपूर्वकतत्पालनेऽपि च स्याद्वादेन विविक्तषट्कायपरिज्ञानं विना स्वसमयपरसमयविवेचनं विना चौघतस्तद्रागमात्रेण द्रव्यसम्यक्त्वं संमतौ निर्णीतम् । तदाह - 'छप्पियजीवनिकाए, सद्दहमाणो ण सद्दहइ भावा । हंदी अपज्जवेसु वि सद्दहणा अविभत्ता ।। (सम्मत्ति० ३ / २८ ) ( नियमेन सद्दहंतो छक्काए भावओ न सद्दहइ - इति पूर्वार्द्ध: मुद्रितपुस्तके) । चरण करणप्पहाणा, ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति ।। (३/६७) इत्यादि । एवं अविविक्तेन देवगुरुधर्मश्रद्धानेन, नवतत्त्वश्रद्धानेन, गुरुपारतंत्र्यादिना च द्रव्यसम्यक्त्वमेव व्यपदिशन्ति श्रुतवृद्धाः । यदारोपणपूर्वं चारित्रारोपणमपि सफलतामास्कन्देत यदाहु -‘गुरुपारतंतनाणं’ इत्यादि । एतादृशानि च द्रव्यसम्यक्त्वानि शुभात्मपरिणामविशेषानुगतानि भावसम्यक्त्वमपि न व्यभिचरन्ति अर्पितानर्पितसिद्धेः उभयरूपाविरोधात, अत एव रुचिभेदा अपि द्रव्यसम्यक्त्वरूपेणाभासमाना अपि क्षायोपशमिकादिभेदेष्वेवान्तर्भाविता वाचकचक्रवर्तिना प्रज्ञप्तौ । तथाहि - 'किंचेहुवाइभेया, दसहावीदं परूविअं समए । ओहेण तंपिमेसिं भेआणमभिन्नरूवं तु ।। त्ति । (श्रावकप्रज्ञ० श्लोक - ५२) टीडार्थ : 1 ननु ..... विद्यमानत्वात् । अल्पमत्वना वियारमां सर्व संज्ञी डरतां भ्योतिष्ठ हेवो संख्यातगुगुगा. કહેલા છે, અને તેઓમાં=જ્યોતિષ્ક દેવોમાં, ચંદ્ર-સૂર્યના વિમાનાધિપતિઓનો સમ્યગ્દષ્ટિપણાનો નિયમ માને છતે, સમ્યગ્દષ્ટિઓ કરતાં મિથ્યાદૃષ્ટિઓનું સંખ્યાતગુણપણું સિદ્ધ થયે છતે, મતિશ્રુતજ્ઞાનીઓથી વિભંગજ્ઞાનીઓ સંખ્યાતગુણા જ પ્રાપ્ત થાય. અને આગમમાં અસંખ્યાતગુણા કહેલા છે, તેથી કરીને અનન્યગતિ હોવાને કારણે ઘણા પરિવાર સહિત પણ ચંદ્ર-સૂર્યાદિ મિથ્યાદષ્ટિપણા વડે વ્યપદેશ્ય છે. આ પ્રમાણે પૂર્વપક્ષી કહે તો તેનો ઉત્તર આપતાં ગ્રંથકાર કહે છે – 'मैवं' रोमन हे उमडे गत्यंतरनुं विद्यमानयागुं छे.
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy