SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ૨૨૩ धर्मपरीक्षा लाग-२ | गाथा-५१ दात्मारम्भकादित्वं, शुभयोगदशायां तु सम्यक्क्रियोपयोगस्यारम्भिकीक्रियाप्रतिबन्धकत्वात्तदुपहितव्यापाराभावेनानारम्भकत्वं, प्रमत्तगुणस्थाने सर्वदाऽऽरम्भिकीक्रियाभ्युपगमस्त्वयुक्तः, अनियमेन तत्र तत्प्रतिपादनात् । तदुक्तं प्रज्ञापनायां २२ क्रियापदे “आरंभिया णं भंते ! किरिया कस्स कज्जइ? गोयमा! अण्णयरस्सावि पमत्तसंजयस्स" इति । एतद्वृत्तिर्यथा - "आरंभियाणं इत्यादि, अण्णयरस्सावित्ति, अत्र 'अपि'शब्दो भिन्नक्रमः, प्रमत्तसंयतस्याप्यन्यतरस्यैकतरस्य कस्यचित्प्रमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमईसंभवाद्, अपि शब्दोऽन्येषामधस्तनगुणस्थानवतिनां नियमप्रदर्शनार्थः 'प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति किं पुनः शेषाणां देशविरतप्रभृतीनाम् ।" इति ।। अस्यां व्यवस्थायां सिद्धायां 'जानतोऽपि भगवतो धर्मोपकरणधरणेऽवर्जनीयस्य द्रव्यपरिग्रहस्येव गमनागमनादिधर्म्यव्यापारेऽवर्जनीयद्रव्यहिंसायामप्यप्रमत्तत्वादेव नाऽशुभयोगत्वमिति प्रतिपत्तव्यम् न च भगवतो धर्मोपकरणसत्त्वेऽपि मूर्छाऽभावेन परिग्रहत्वत्यागान परिग्रहदोषः, द्रव्यहिंसायां तु सत्यां प्राणवियोगरूपतल्लक्षणसत्त्वात् तद्दोषः स्यादेवेति व्यामूढधिया शङ्कनीयं, “प्रमादयोगेन प्राणव्यपरोपणं हिंसा" इति तत्त्वार्थे (७-११) तल्लक्षणकरणाद् भगवति तदभावादेव । अत एव 'हिंसा नियतो दोषः, परिग्रहस्त्वनियतो दोषः' इत्यपास्तं, मैथुनादन्यत्राश्रवेऽनियतदोषत्वप्रतिपादनात् । तदुक्तं तत्त्वार्थवृत्तौ (७-११) “प्रमत्तयोगादसदभिधानमनृतं, प्रमत्तयोगाददत्तादानं स्तेयं, प्रमत्तयोगान्मूर्छा परिग्रहः, मैथुने प्रमत्तयोगादिति पदं न, यत्राप्रमत्तस्य तथाभावे सति कर्मबन्धाभावस्तत्र प्रमत्तग्रहणमर्थवद् भवति, प्रमत्तस्य कर्मबन्धो नाऽप्रमत्तस्येति, प्राणातिपातवत्, मैथुने तु रागद्वेषान्वयाविच्छेदात्, सर्वावस्थासु मैथुनासेविनः कर्मबन्धः, इत्यादि ।” एतेन द्रव्यहिंसया भगवतः प्राणातिपातकत्वप्रसङ्गोऽपि निरस्तः, द्रव्यपरिग्रहेण परिग्रहित्वप्रसङ्गतुल्ययोगक्षेमत्वात् । टीमार्थ :यदि च..... योगक्षेमत्वात् । सन ने 4जी विमान राय छ तो, પૂર્વપક્ષીને શું દોષ આવે છે ? તે બતાવે છે – * हा 'यदि च'नो अन्वय ‘इति विभाव्यते' साथे छे. पूर्वपक्षी शुं विमान २ छ ? ते 'यत्तु'थी पता छ - વળી, જે શ્રુતવ્યવહારશુદ્ધનું પણ અષણીયપણાથી કથા છે=કેવલીની દ્રષ્ટિમાં અષણીય છે એ પ્રકારનું કથન છે, તે શ્રુતવ્યવસ્થાને આશ્રયીને જ જાણવું અર્થાત્ શ્રત વ્યવસ્થાનુસાર સાધુના એષણાના દોષો જે ભિક્ષામાં હોય તેને આશ્રયીને જ જાણવું; કેમ કે જે પ્રમાણે આ સાધુ ઉદાયના રાજા છે એ કથનમાં રાજાપણું અગૃહીત શ્રામગૃઅવસ્થાની અપેક્ષાએ જ છે એ પ્રકારના સ્વવચનનું
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy