________________
૨૦૧
ધર્મપરીક્ષા ભાગ-૨ | ગાથા-પ૧ અપવાદથી વસ્ત્રધારણ કરે તો પ્રમત્તતાની પ્રાપ્તિનો દોષ પૂર્વપક્ષીને પ્રાપ્ત થાય. વળી, પૂર્વપક્ષી ધર્મોપકરણના ધારણરૂપ દ્રવ્યાશ્રવ અપવાદથી છે તેમ સ્વીકારે તો ભગવાનને અશુભયોગો છે તેમ સ્વીકારવાની પૂર્વપક્ષીને આપત્તિ આવે; કેમ કે પૂર્વપક્ષીના મતાનુસાર સાધુને પણ અશુભ યોગમાં જ દ્રવ્યાશ્રવ હોય છે. टीका:
इदं हि तव मतम् - योगानामशुभत्वं तावन्न जीवघातहेतुत्वमात्रेण, उपशान्तगुणस्थानं यावदप्रमत्तसंयतानां कदाचित्सद्भूतजीवघातसंभवेन 'तत्थ णं जे ते अपमत्तसंजया ते णं णो आयारंभा णो परारंभा णो तदुभयारंभा अणारंभा' (भग. श. १, उ.१) इत्यागमप्रतिपादिताऽनारंभकत्वानुपपत्तिप्रसक्तेः अशुभयोगानामारंभकत्वव्यवस्थितेः, किन्तु फलोपहितयोग्यतया घात्यजीवविषयकाभोगपूर्वकजीवघातहेतुत्वेन । अत्र 'फलोपहितयोग्यतया' इति पदं केवलियोगानामशुभत्वनिवारणार्थमेव, तेषां स्वरूपयोग्यतयैव यथोक्तजीवघातहेतुत्वाद्, न पुनः फलोपहितयोग्यतयापि, कारणानामभावात् ।
तथाऽशुभत्वं प्रमत्तयोगानामेव, तदभिव्यञ्जकं तु प्रमत्तयोगानां फलवच्छुभाशुभत्वाभ्यां वैविध्याभिधायकमागमवचनमेव । तथाहि - 'तत्थ णं जे ते पमत्तसंजया ते णं सुहं जोगं पडुच्च णो आयारंभा जाव अणारंभा । असुहं जोगं पडुच्च आयारंभावि जाव णो अणारंभत्ति' । अत्रापि प्रमत्तसंयतानां सामान्यतः प्रमत्ततासिद्ध्यर्थं तदीययोगानां स्वरूपयोग्यतयाऽऽभोगपूर्वकजीवघातहेतुत्वं वक्तव्यं, कादाचित्काशुभयोगजन्यारम्भकत्वसिद्ध्यर्थं चाभोगोऽपि घात्यजीवविषयत्वेन व्यक्तो वक्तव्यः, तद्वत एव कस्यचित्प्रमत्तस्य सुमङ्गलसाधोरिवापवादावस्थां प्राप्तस्यात्माद्यारम्भकत्वात्, संयतत्वं च तस्य तदानीमपवादपदोपाधिकविरतिपरिणामस्यानपायाद् न चैवमप्रमत्तसंयतस्य भवति, तस्यापवादपदाधिकारित्वाभावेनाभोगपूर्वकजीवघातहेतूनां योगानामभावात् ।
यस्त्वपवादप्रतिषेवणाराहित्यावस्थायामप्यप्रमत्तानामिव सद्भूतजीवघातः स चानाभोगजन्य एव, तदानीमनाभोगस्यापि तस्य विद्यमानत्वाद्, अत एवाप्रमत्तानामिव योगानां शुभत्वेन नात्माद्यारम्भकत्वमिति । टीमार्थ :
इदं ..... नात्माद्यारम्भकत्वमिति । ३५ पूर्वपक्षीने अपवायी वस्त्रधा२५॥ स्वी२वाना अशुभयोगनी પ્રાપ્તિ છે ? તે બતાવવા અર્થે ગ્રંથકારશ્રી કહે છે –
આ પ્રકારનો તારો મત છે – જીવઘાતના હેતુત્વમાત્રથી યોગોનું અશુભપણું નથી, પરંતુ લોપતિયોગ્યપણાથી ઘાત્યજીવ વિષયક આભોગપૂર્વક જીવઘાત હેતુત્વથી છે, એમ આગળમાં અવય છે.