SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ धर्भपरीक्षा नाग-२/गाथा-30 सेसाणं जीवाणं दाणरुइत्तं सहावविणिअत्तं । तहपयणुकसायत्तं परोवयारित्तं भव्वत्तं ।। दक्खिन्नदयालुत्तं पियभासित्ताइ विविहगुणणिवहं । सिवमग्गकारणं जं तं सव्वं अणुमयं मज्झ ।। पञ्चसूत्रावप्युक्तं-'अणुमोएमि सव्वेसिं अरिहंताणमणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं, सव्वेसिं आयरियाणं आयारं, सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरियं, सव्वेसिं सावगाणं मुक्खसाहणजोए, सव्वेसिं देवयाणं सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोए । होउ मे एसा अणुमोअणा ।।' एतवृत्तिर्यथा-'अनुमोदेऽहमिति प्रक्रमः । सर्वेषामर्हतामनुष्ठानं धर्मकथादि, सर्वेषां सिद्धानां सिद्धभावमव्याबाधादिरूपं, एवं सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणं, एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवद् एवं सर्वेषां साधूनां साधुक्रियां सत्स्वाध्यायादिरूपां, एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैयावृत्यादीन्, एवं सर्वेषां देवानामिन्द्रादीनां, सर्वेषां जीवानां सामान्येनैव भवितुकामानामासन्नभव्यानां कल्याणाशयानां, एतेषां किं? इत्याह-मार्गसाधनयोगान् सामान्येनैव कुशलव्यापारान्, अनुमोदे इति क्रियानुवृत्तिः । भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमादनभिग्रहे सति । प्रणिधिशुद्धिमाह-भवतु ममैषानुमोदनेत्यादि ।।' अत्र हि सामान्येनैव कुशलव्यापाराणामनुमोद्यत्वमुक्तं, इति मिथ्यादृशामपि स्वाभाविकदानरुचित्वादिगुणसमूहो व्यक्त्याऽनुमोद्यो न तु तद्विशेष एवाश्रयणीयः । यत्तु 'दानमपि परेषामधर्मपोषकत्वादधिकरणमिति दानरुचित्वादिगुणेष्वपि विशेषाश्रयणमावश्यकमित्यासनसम्यक्त्वसङ्गमनयसारादिसदृशसाधुदानादिनैव दानरुचित्वादिकं ग्राह्यमिति परस्याभिमतं तदसत्, भूमिकाभेदेन दानविधेरपि भेदात्, सम्यग्दृष्टिं प्रति प्रासुकैषणीयादिदानविधेरिवादिधार्मिकं प्रति 'पात्रे दीनादिवर्गे च' इत्यादेरपि दानविधेः प्रतिपादनात्, ततः सामान्येन कुशलव्यापारा आदिधार्मिकयोग्या एव ग्राह्या इति युक्तं पश्यामः । टीमार्थ : मार्गानुसारिकृत्यं ..... पश्यामः । 'मग्गाणुसारित्ति' प्रती छे. तमोj gn=मिथ्याष्टिमी , માર્ગાનુસારી કૃત્ય તત્વના પક્ષપાતપૂર્વક થા-દાનાદિ કૃત્ય, અનુમોદનીય ભગવાન વડે ઉપદિષ્ટ છે. ચતુશરણ પ્રકરણમાં તેત્રમાર્ગનુસારીકૃત્ય અનુમોદનીય છે કે, કહેવાયું છે – “અથવા સર્વ જ વીતરાગવચનાનુસારી જે સુકૃત કાલત્રયમાં પણ કોઈના વડે ત્રિવિધ=મન, વચન, કાયાથી, કરાયું છે તે સર્વ હું અનુમોદું છે.” मानी वृति या'थी जता छ -
SR No.022181
Book TitleDharm Pariksha Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages326
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy