SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४८ धर्भपरीक्षा भाग-१ | गाथा-30 म. सर्ववि२।५ छ ? तेथी 3 छ - णिच्छयपरंमुहो खलु ववहारो उम्मग्गो होइनभ्यय ५६भुप मेवो व्यवहार मा छे. ॥30॥ गाथार्थ: જેઓનો ભાવ અશુદ્ધ છે તેઓ વ્યવહારમાં રહેલા પણ વ્યવહારથી સંયમની ક્રિયા કરનારા પણ, આવા પ્રકારના છે સર્વવિરાધક છે. उभ सर्ववि।ध छ ? तेथी ४ छ - निश्यय पराभुण मेवो व्यवहार 6भाग छ. ||30|| टी : भावोत्ति । भावः चित्तपरिणामो, येषामशुद्धः=अपुनर्बन्धकाद्युत्तीर्णत्वेन लेशेनापि निश्चयास्पर्शी, ते व्यवहारस्थिता अपि स्वाभिमतैहिकप्रयोजनार्थं व्यवहारमाश्रिता अपि, ईदृशकाः सर्वविराधका एव, निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गो भवतीति न तेषां क्लिष्टकर्मणां स त्राणायेति । यस्तु व्यवहारो बलवानभ्यधायि प्रवचने स निश्चयप्रापको न तु तदप्रापकः, अत एव 'अविधिनाप्यभ्यासो विधेयः, दुषमायां विधेर्दुर्लभत्वात्, तस्यैव चाश्रयणे मार्गोच्छेदप्रसङ्गात्' इत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थं विधियत्न एव व्यवहारशुद्धिहेतुः शास्त्रे कर्तव्यतयोपदर्शितः । तदुक्तं पञ्चाशके (३-४९) - "आलोइऊण एवं तंतं पूव्वावरेण सूरीहिं । विहिजत्तो कायव्वो मुद्धाण हियट्ठया सम्मं ।।" इति । एतवृत्तिर्यथा - "आलोच्य विमृश्य, एवं पूर्वोक्तन्यायेन, तन्त्रं प्रवचनं, कथं? इत्याह-पूर्वश्च-तन्त्रस्य पूर्वो भागः, अपरश्च तस्यैवापरो भागः, पूर्वापरं तेन सप्तम्यर्थे वा ‘एन प्रत्यये सति पूर्वापरेणेति स्यात्, पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत्, अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वावबोधासमर्थत्वादिति, सूरिभिः आचार्यैः पण्डितैर्वा, विधौ-विधाने, वंदनागते वेलाद्याराधनरूपे यत्न उद्यमो विधियत्नः, स कर्त्तव्यो= विधातव्यो, विमुक्तालस्यैः स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्यर्थः । किमर्थमेतदेवं? इत्याह-मुग्धानां=अव्युत्पन्नबुद्धीनां, हितं श्रेयः, तद्रूपो योऽर्थः वस्तु, स हितार्थस्तस्मै हितार्थाय सम्यगविपरीततया । यदा हि गीतार्था विधिना स्वयं वन्दनां विदधन्त्यांश्च तथैव विधापयन्ति, तदा मुग्धबुद्धयोऽपि तथैव प्रवर्त्तन्ते, प्रधानानुसारित्वान्मार्गाणाम् । आह च - जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते तयणुचरा के णु सीयंति ।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy