SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा भाग -१ | गाथा - १५ उपादेयधियात्यन्तं संज्ञाविष्कंभणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ।।२५।। आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ।।२६।। भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।। २७ ।। लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च ।। २८ ।। दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ।। ३२ । । इति । १५५ ललितविस्तरायामप्युक्तं- 'एतत्सिद्ध्यर्थं तु यतितव्यमादिकर्मणि, परिहर्त्तव्योऽकल्याणमित्रयोगः, सेवितव्यानि कल्याणमित्राणि, न लङ्घनीयोचितस्थितिः, अपेक्षितव्यो लोकमार्गः, माननीया गुरुसंत (ह)तिः भवितव्यमेतत्तन्त्रेण, प्रवर्त्तितव्यं दानादौ कर्त्तव्योदारपूजा भगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, भावनीयं महायत्नेन, प्रवर्त्तितव्यं विधानतो, अवलम्बनीयं धैर्यं, पर्यालोचनीयाऽऽयतिः, अवलोकनीयो मृत्युः, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनीयं भुवनेश्वरवचनं, कर्तव्यो मंगलजापः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं कुशलं, पूजनीया मन्त्रदेवता, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्यं, वर्त्तितव्यमुत्तमज्ञातेन, एवम्भूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः, तदन्यस्यैवंभूतगुणसंपदोऽभावात्' इत्यत आह- यद् यस्मादपुनर्बन्धकानां चित्रमनेकविधमनुष्ठानमुपदिष्टं, अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया नानुपपत्तिरिति । इदमत्र हृदयं - न ह्यादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुज्यते, किन्तु क्वचित्कश्चिदेव, इति भिन्नाचारस्थितानामप्यन्तः शुद्धिमतामपुनर्बन्धकत्वमविरुद्धं, अपुनर्बंधकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्तापि मोक्षार्था क्रिया घटते, सम्यग्दृष्टेश्च स्वतंत्रक्रियैवेति व्यवस्थितत्वात् । तदुक्तं योगबिन्दुसूत्रवृत्त्योः अपुनर्बंधकस्यैवं सम्यग्नीत्योपपद्यते । - तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ।।२५१।। अपुनर्बधकस्योक्तरूपस्यैवमुक्तरूपेण सम्यग्नीत्या शुद्धयुक्तिरूपया उपपद्यते = घटते, किमित्याह – तत्तत्तन्त्रोक्तं कापिलसौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं, अखिलं समस्त कुतः ? इत्याह अवस्थाभेदसंश्रयात्
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy