SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ महेशभाला भाग - १ / गाथा - पप गाथार्थ : પરાક્રમવાળા અને રાજકુલના વાયુથી જનિત ઉત્કર્ષવાળા ગજસુકુમાર વડે પોતાનું મસ્તક પ્રજ્વલિત કરાયે છતે તે પ્રકારે ક્ષમા કરાઈ, જે પ્રકારે મોક્ષને પામ્યા. ૫૫ GG टीडा : पराक्रमः परनिराकरणोत्साहः, सह पराक्रमेण वर्तते इति सपराक्रमं तच्च तद्राजकुलं च तस्य वातस्तज्जनित उत्कर्षः, स विद्यते यस्याऽसौ सपराक्रमराजकुलवातिकः, यद्वा सपराक्रम इति तस्यैव विशेषणम्, सपराक्रमश्चासौ राजकुलवातिकश्चेति समासः, तेन शिरसि मस्तके प्रदीपिते प्रज्वालिते निजके स्वीये गजसुकुमारेण क्षमा क्षान्तिस्तथा तेन निष्प्रकम्पताप्रकारेण कृता विहिता उपसर्गकारिणिगोचरा इति गम्यते, यथा शिवं मोक्षं प्राप्त इति गाथाक्षरार्थः । भावार्थः कथानकादवसेयस्तच्चेदम् द्वारवत्यां कृष्णस्य मातुर्देवक्या निजतनयपीयमानस्तनीं काञ्चिन्नारीं उपलभ्य सञ्जातमौत्सुक्यं, यदुत धन्यास्ताः एव प्रमदा यासां दुग्धलुब्धमुग्धस्मेरमुखैर्वल्गच्छिरोधरैस्तनयैः स्तनौ पीयते, मम पुनर्मन्दभाग्याया नैतत्सम्पन्नमिति सविषादा च दृष्टा कृष्णेन, स प्रणिपत्याह- अम्ब ! किमेतत् ? ततः कथितं तया निजाकूतम् । पूरयामि ते मनोरथानित्यभिधायाराधितस्तेन देवः । देवः प्राहभविष्यति तनयो दिवश्च्युतः, केवलं जन्मान्तराभ्यस्तकुशलकर्मत्वान्न चिरं गृहे स्थास्यतीति । तदाकर्ण्य कथितं कृष्णेन देवक्याः प्रतिपन्नम् तया । ततो गजस्वप्नसूचित आविर्भूतो गर्भः, जातः क्रमेण दारकः, प्रतिष्ठितं नाम गजसुकुमार इति । प्राप्तो यौवनमुद्वाहितः सोमिलब्राह्मणसुतां माता- पितृभ्यां स पुनरिन्द्रजालमिव जगदसारं मन्यमानो विडम्बनाप्रायं वैषयिकं सुखं चिन्तयन् कारागृहमिव गृहं तदनुरोधात् तावन्तं कालमधिवसति स्म । पश्चान्निवेद्य स्वाभिप्रायं तयोः सम्भाव्य च नानोपायैः विमुक्तस्ताभ्यां कृष्णेन च भगवदरिष्टनेमिपादमूले निष्क्रान्तोऽभ्यस्तद्विविधशिक्षोऽन्यदा द्वारवत्यामेव स्मशाने स्थितः कायोत्सर्गेण कथञ्चित्तद्देशमागतेन दृष्टः सोमिलेन । मद्दुहितरं परिणीय त्यक्तवानयं दुष्टात्मेति समुल्लसितोऽस्य क्रोधः । ततः कृत्वा मृत्तिकया शिरसो वेष्टनं, प्रक्षिप्य तत्र ज्वलिताङ्गारानपक्रान्तोऽसौ । इतरस्यापि ‘अहो ! मन्निमित्तमयं वराकः कश्चित्प्रपतिष्यति घोरे नरके' इति भावनासमीरणसन्धुक्षिते ज्वलति ज्वलने तत्सहाय इव प्रबुद्धः शुक्लध्यानज्वलनः, दग्धं इतरेण शरीरमिव घातिकर्मचतुष्टयं, समुत्पन्नं केवलज्ञानम्, अध्यासिता शैलेशी, समाप्तमायुष्कं सम्प्राप्तः परमपदमिति । द्वितीयदिने समागतो विष्णुर्भगवद्वन्दनार्थं, वन्दितः सह मुनिभिर्भगवान् । पश्चात् क्व गजसुकुमार इति तस्य वदतो
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy